SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७२ पञ्चविधः प्रमादः रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥३२/७३॥ कायस्स फासं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु । तं दोसउं अमणुण्णमाहु, समो अ जो तेसु स वीरागो ॥३२ / ७४॥ फासस्स जो गिद्धमुवेइ तिव्वं, अकालिअं पावइ से विणासं । रागाउरे सीअजलावसन्ने, गाहग्गहीए महिसे व रणे ॥३२ / ७६ ॥ (छाया - रसे विरक्तो मनुजो विशोको, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन्, जलेन इव पुष्करिणीपलासम् ॥३२/७३॥ कायस्य स्पर्शं ग्रहणं वदन्ति, तद् रागहेतुं तु मनोज्ञमाहुः । तद् द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ॥ ३२/७४ || स्पर्शस्य यो गृद्धिमुपैति तीव्रां, अकालिकं प्राप्नोति स विनाशम् । रागातुरः शीतजलावसन्नः, ग्राहगृहीतो महिष इव अरण्ये || ३२/७६ ॥ ) वृत्ति: - 'सीअजलावसन्ने 'त्ति शीतजलेऽवसन्नो निमग्नः शीतजलावसन्नो ग्राहैर्जलचरविशेषैर्गृहीतो महिष इवारण्ये, वसतौ हि कदाचित्केनचिन्मोच्येतापीत्यरण्यग्रहणम् ॥३२/७६ ॥ फासे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३२ / ८६॥ (छाया - स्पर्शे विरक्तो मनुजो विशोको, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन्, जलेनेव पुष्करिणीपलासम् ॥३२/८६॥)' मोक्षमार्गं प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः । स पञ्चविधः । तद्यथा १ मद्यं, २विषयाः, ३ कषायाः, ४ निद्रा, ५ विकथा च । पञ्चविधप्रमादस्वरूपमेवं ज्ञेयमुत्तराध्ययनसूत्रचतुर्थाध्ययननिर्युक्तितद्वृत्तिभ्याम् - 'मज्जं विसय कसाया निद्दा विगहा य पंचमी भणिया । इअ पंचविहो एसो होइ पमाओ य अपमाओ ॥ १८० ॥ (छाया - मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता । इति पञ्चविध एष भवति प्रमादश्च अप्रमादः || १८० || ) -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy