SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७१ पञ्चविधा विषयाः (छाया- घ्राणस्य गन्धं ग्रहणं वदन्ति, तद् रागहेतुं तु मनोज्ञमाहुः । तद् दोषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ॥३२/४८॥) गंधेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ॥३२/५०॥ (छाया- गन्धेषु यो गृद्धिमुपैति तीव्रां, अकालिकं प्राप्नोति स विनाशम् । रागातुरः औषधिगन्धगृद्धः, सर्पो बिलादिव निष्क्रामन् ॥३२/५०॥) वृत्तिः - 'ओसहि' इत्यादि - औषधयो नागदमन्याद्यास्तासां गन्धे गृद्धः औषधिगन्धगृद्धः सन् 'सप्पे बिलाओ विवत्ति इहेवशब्दस्य भिन्नक्र मत्वात् सर्प इव बिलान्निष्क्रामन्, स ह्यत्यन्तप्रियं तद्गन्धमुपेक्षितुमशक्तो बिलान्निष्क्रामति, ततो गारुडिकादिपरवशो दुःखमनुभवतीति ॥३२/५०॥ गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणी पलासं ॥३२/६०॥ (छाया- गन्धे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन्, जलेनेव पुष्करिणीपलासम् ॥३२/६०॥) जीहाए रसं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥३२/६१॥ (छाया- जिह्वया रसं ग्रहणं वदन्ति, तद् रागहेतुं तु मनोज्ञमाहुः । तद् द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ॥३२/६१॥) रसेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे बडिसविभिन्काए, मच्छे जहा आमिसभोगगिद्धे ॥३२/६३॥ (छाया- रसेषु यो गृद्धिमुपैति तीव्रां, अकालिकं प्राप्नोति स विनाशम् । रागातुरो बडिशविभिन्नकायः, मत्स्यः यथा आमिषभोगगृद्धः ॥३२/६३॥) वृत्तिः - 'बडिसविभिन्नकाए'त्ति बडिशं प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नो विदारितः कायो यस्य स बडिशविभिन्नकायः मत्स्यो यथा आमिषस्य मांसस्य भोगे खादने गृद्ध आमिषभोगगृद्धः ॥३२/६३॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy