SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० पञ्चविधा विषयाः (छाया- रूपे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन्, जलेन इव पुष्करिणीपलासम् ॥३२/३४॥) वृत्तिः - रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेण'त्ति दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येऽपि संस्तिष्ठन् । दृष्टान्तमाह - 'जलेण वत्ति' जलेनेव वाशब्दस्येवार्थत्वात्, पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येऽपि सदिति शेषः ॥३२/३४॥ सोअस्स सहं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु। तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥३२/३५॥ (छाया- श्रोत्रस्य शब्दं ग्रहणं वदन्ति, तद् रागहेतुं तु मनोज्ञमाहुः । तद् द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ॥३२/३५॥) वृत्तिः - 'सोअस्स'त्ति, श्रोत्रेन्द्रियस्य ॥३२/३५॥ सहेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे हरिणमिएव्व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥३२/३७॥ (छाया- शब्देषु यो गृद्धिपैति तीव्रां, अकालिकं प्राप्नोति स विनाशम् । रागातुरः हरिणमृग इव मुग्धः, शब्दे अतृप्तः समुपैति मृत्युम् ॥३२/३७|) वृत्तिः - 'हरिणमिए व्व मुद्धे त्ति ।' मृगशब्देन सर्वोऽपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते । हरिणश्चासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः, शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन् ॥३२/३७॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ॥३२/४७॥ (छाया- शब्दे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन्, जलेन इव पुष्करिणीपलासम् ॥३२/४७॥) घाणस्स गंधं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु। तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥३२/४८॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy