________________
पञ्चविधा विषयाः
२६९ स्वस्वविषयप्रवृत्तिभाजो ज्ञानवल्गाभिः सुखेनैव गृह्णातीति गाथाभावार्थः ॥२५७॥'
इन्द्रियैाह्या अर्था विषयाः । ते पञ्चविधाः । तद्यथा - १ स्पर्शः, २ रसः, ३ गन्धः, ४ वर्णः, ५ शब्दश्च । यदवाचि तत्त्वार्थाधिगमसूत्रे - 'स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२/२१॥'
मनोज्ञामनोज्ञेषु इन्द्रियविषयेषु रागद्वेषौ न कर्त्तव्यौ । यदुक्तमुत्तराध्ययनसूत्रे महोपाध्यायश्रीभावविजयकृततद्वृत्तौ च -
'चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु ।
तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ॥३२/२२॥ (छाया- चक्षुषो रूपं ग्रहणं वदन्ति, तद्रागहेतुं तु मनोज्ञमाहुः ।
तद् द्वेषहेतुममनोज्ञमाहुः, समस्तु यस्तेषु स वीतरागः ॥३२/२२॥) वृत्तिः - चक्षुषा रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह - तद्रूपं रागहेतुं तुः पूर्ती मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहैवं न कोऽपि सति रूपे वीतरागः स्यादत आह - समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः - न तावत्तयोश्चक्षुः प्रवर्त्तयेत्, कथञ्चित्प्रवृत्तौ तु समतामेवावलम्बेतेति ॥३२/२२॥
रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं ।
रागाउरे से जह वा पयंगे आलोअलोले समुवेइ मच्चुं ॥३२/२४॥ (छाया- रूपेषु यो गृद्धिमुपैति तीव्रां, अकालिकं प्राप्नोति स विनाशम् ।
रागातुरः सन् स यथा वा पतङ्गः, आलोकलोलः समुपैति मृत्युम् ॥३२/२४॥) वृत्तिः - रूपेसु यो गृद्धि रागमुपैति तीव्रां अकाले भवमकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽतिस्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ॥३२/२४॥
रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पोक्खरिणीपलासं ॥३२/३४॥