SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६८ पञ्चविधानीन्द्रियाणि शेषाणि पुनर्घाणरसनस्पर्शनेन्द्रियाणि प्रत्येकमुत्कृष्टतो योजननवकादागतं स्वविषयं यथासङ्ख्यं गन्धं रसं स्पर्श च गृह्णन्ति, तथाहि - कर्पूरादीनां प्रथममेघवृष्टितिमिताटविकसुरभिमृत्तिकादीनां वा सम्बन्धिनं गन्धं कश्चित् पटुघ्राणशक्तिर्देवादिरुत्कृष्टतो नवयोजनान्तरितानामपि गृह्णाति, स एव च यदा गन्धवतो द्रव्यस्य दूरस्थितस्यापि तिक्तकटुकत्वादिकं धर्मं निश्चिन्वानो दृश्यते तदा ज्ञायते रसपुद्गला अपि तत्सम्बन्धिनो गृहीता एव, तिक्तत्वादेर्घाणाद्यविषयत्वाद्, एवं नवयोजनविषयता रसनेन्द्रियस्यापि सिद्धा, स एव च देवादिर्जलवातोऽयं हिमवातोऽयमित्यादिप्रकारेणोत्कृष्टतो योजननवकादागतं शीतलपवनादिस्पर्श परिच्छिनत्ति, न परत इति सार्धगाथार्थः ॥२५४॥ ॥२५५॥ जघन्यतः पुनः कियद् दूरे स्थितं स्वविषयमेतानि गृह्णन्तीत्याह - अंगुलअसंखभागा मुणंति विसयं जहन्नओ मोत्तुं । चक्टुं तं पुण जाणइ अंगुलसंखेज्जभागाओ ॥२५६॥ (छाया- अङ्गुलअसङ्ख्येयभागात् जानन्ति विषयं जघन्यतो मुक्त्वा । चक्षुः तत् पुनः जानाति अङ्गलसङ्ख्येयभागात् ॥२५६।।) वृत्तिः - श्रोत्रादीनि सर्वाण्यपि जघन्यतोऽङ्गलासङ्ख्येयभागे व्यवस्थितं प्रत्येकं स्वविषयं गृह्णन्ति, किं सर्वाण्यप्येवं ?, नेत्याह मुक्त्वा चक्षुः, तस्य तर्हि का वार्तेत्याहतत्पुनः-चक्षुर्जानाति जघन्यतो रूपमङ्गलसङ्ख्यातभागे व्यवस्थितं, असङ्ख्यातभागे त्वङ्गलस्य व्यवस्थितमतिसन्निकृष्टं वस्तु लोचनं न पश्यत्येव, अञ्जनदूषिकाशलाकादीनामतिसन्निकृष्टानां चक्षुषा अनुपलम्भादिति गाथार्थः ॥२५६॥ आह-नन्विन्द्रियार्थगृद्धिविपाक एवोपदेष्टव्यः, तस्यैव विषयविरागजनकत्वेन मुक्तिसाधकत्वात्, किमिन्द्रियभेदादिकथनेनेत्याह -? इय नायतस्सरूवो इंदियतुरए सएसु विसएसु। अणवरय धावमाणे निगिण्हए नाणरज्जूहि ॥२५७॥ (छाया- इति ज्ञाततत्स्वरूप इन्द्रियतुरगान् स्वकेषु विषयेषु । अनवरतं धावमानान् निगृह्णीयात् ज्ञानरज्जुभिः ॥२५७॥) वृत्तिः - इदमुक्तं भवति-ज्ञातमेव वस्तु निग्रहीतुमनुग्रहीतुं वा शक्यते, अतो ज्ञानोपायत्वादिन्द्रियजयादीनां भेदादयोऽपि कथनीया एव, तद्द्वारेण च ज्ञातस्वरूपानिन्द्रियतुरगान्
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy