SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६७ पञ्चविधानीन्द्रियाणि नाणागारं फासिंदियं तु बाहल्लओ य सव्वाइं। अंगुलअसंखभागं एमेव पुहुत्तओ नवरं ॥२५३॥ (छाया- नानाकारं स्पर्शनेन्द्रियं तु बाहल्यतश्च सर्वाणि । अङ्गलअसङ्ख्येयभागं एवमेव पृथक्त्वतो नवरं ॥२५३॥) अंगुलपुहुत्तरसणं फरिसं तु सरीरवित्थडं भणियं । (छाया- अङ्गुलपृथक्त्वं रसनं स्पर्शनं तु शरीरविस्तृतं भणितं ।) वृत्तिः - सातिरेकाऽपि गाथा परिभाविताथैव, नवरं श्रोत्रादीनि चत्वारीन्द्रियाणि अन्तर्निवृत्तिमाश्रित्य यथासङ्ख्यं कदम्बकुसुमगोलकादिसंस्थानानि मन्तव्यानि, स्पर्शनेन्द्रियं तु नानासंस्थानं, तदाधारभूतानां सर्वजन्तुशरीराणामसङ्ख्येयत्वात् तेषां च नानाकारत्वेन तदाधेयस्पर्शनेन्द्रियस्यापि तावदाकारत्वादिति भावः । अथ प्रमाणद्वारमाश्रित्याह - श्रोत्रादीनि सर्वाण्यप्यन्तनिर्वृत्तिमाश्रित्य बाहल्यतः-स्थूलतया प्रत्येकमङ्गुलासङ्ख्येयभागप्रमाणान्येव, पृथुत्वमाश्रित्य एतदेव प्रमाणं, नवरमुत्कृष्टतो रसनेन्द्रियं कस्यचिदङ्गुलपृथक्त्वमपि पृथुलत्वेन भवति, स्पर्शनेन्द्रियं तु स्वाधारभूतशरीरविस्तरोपेतं द्रष्टव्यमिति ॥२५३॥ ॥२५३॥ विषयद्वारमधिकृत्याह बारसहिं जोयणेहिं सोयं परिगिण्हए सदं ॥२५४॥ रूवं गिण्हइ चक्खं जोयणलक्खाओ साइरेगाओ। गंधं रसं च फासं जोयणनवगाउ सेसाइं ॥२५५॥ (छाया- बारसहिं जोयणेहिं श्रोत्रं परिगृह्णाति शब्दम् ॥२५४॥ रूपं गृह्णाति चक्षुः योजनलक्षात् सातिरेकात् । गन्धं रसं च स्पर्शं योजननवकात् शेषाणि ॥२५५॥) वृत्तिः - श्रोत्रं तावन्मेघगर्जितादिध्वनिलक्षणं स्वयं उत्कृष्टतो द्वादशयोजनव्यवधानादागतं शृणोति, न परतः, चक्षुः पुनरुत्कृष्टतो योजनलक्षात् सातिरेकाद्रूपं गृह्णाति, विष्णुकुमारादयो हि कृतलक्षयोजनप्रमाणवैक्रियशरीराः स्वचरणपुरो व्यवस्थितं गर्तादिकं तन्मध्यगतं च लेष्ट्वादिकं पश्यन्त्येवेति तच्चक्षुषः सातिरेकयोजनलक्षविषयता द्रष्टव्या,
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy