________________
२६६
पञ्चविधानीन्द्रियाणि
वृत्तिः - द्रव्येन्द्रियभावेन्द्रियभेदात् पुनरेकैकं द्विभेदमित्याह - 'दव्वी 'त्यादि ॥२४७॥
तत्र द्रव्येन्द्रियभावेन्द्रिययोः स्वरूपमाह
अंतोबहिनिव्वत्ती तस्सत्तिसरूवयं च उवगरणं । दविदियमियरं पुण लद्भुवओगेहिं नायव्वं ॥ २४८ ॥
-
(छाया - अन्तर्बहिर्निर्वृत्तिः तच्छक्तिस्वरूपकं चोपकरणम् । द्रव्येन्द्रियमितरत् पुनः लब्ध्युपयोगैः ज्ञातव्यम् ॥२४८॥
वृत्तिः - 'इदि परमैश्वर्ये' इन्दतीति इन्द्रः - जीवस्तस्योपकाराय वर्त्तते यत्तदिन्द्रियंश्रोत्रादि, तच्च प्रत्येकं द्विधा - पुद्गलद्रव्यरूपं द्रव्येन्द्रियं लब्ध्युपयोगस्वभावस्वरूपं तु भावेन्द्रियं पुनरपि निर्वृत्त्युपकरणभेदाद् द्रव्येन्द्रियं द्विधा, निर्वृत्तिः पुनरपि द्विधा - अन्तो बहिश्च, तत्र श्रवणेन्द्रियस्यान्तः - मध्ये चक्षुर्गोचरातीता केवलिदृष्टा कदम्बकुसुमगोलकाका देहावयवमात्ररूपा काचित् निर्वृत्तिरस्ति, यथा शब्दग्रहणोपकारे वर्त्तते, चक्षुरिन्द्रियस्य धान्यमसूराकारा घ्राणेन्द्रियस्य अतिमुक्तककुसुमाकारा काहलाकारेतियावत् रसनेन्द्रियस्य क्षुरप्रप्रहरणाकारा स्पर्शनेन्द्रियस्य तु यथास्वमात्मीयाधारभूतदेहाकारा निर्वृत्तिः, बहिर्निर्वृत्तिस्तु या बहिरेव सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या, उपकरणं तु तेषामेव कदम्बगोलकाकारादीनां खड्गस्य छेदनशक्तिरिव या स्वकीयविषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यं, तदेवं व्यवस्थिते अन्तर्बहिश्च या निर्वृत्तिस्तस्या अन्तर्बहिर्निर्वृत्तेः शक्तिस्तच्छक्तिस्तत्स्वरूपं च यदुपकरणं एतद्वितयमपि द्रव्येन्द्रियमुच्यते, 'निर्वृत्त्युपकरणे द्रव्येन्द्रियम्' (तत्त्वार्थ अ० २ सू० १७ ) इति वचनात्, इतरद्-भावेन्द्रियं पुनर्लब्ध्युपयोगाभ्यां ज्ञातव्यं, तत्र ज्ञानावरणादिकर्मक्षयोपशमाज्जीवस्य शब्दादिग्रहणशक्तिर्लब्धिः, उपयोगस्तु शब्दादीनामेव ग्रहणपरिणामः, एतत्तु द्वयमपि भावेन्द्रियमिति भाव इति गाथार्थः
॥२४८॥
संस्थानद्वारे प्राह
-
कायंबपुप्फगोलयमसूरअइमुत्तयस्स पुप्फं च । सोयं चक्खुं घाणं खुरप्पपरिसंठियं रसणं ॥ २५२॥ (छाया - कदम्बपुष्पगोलकमसूरअतिमुक्तकस्य पुष्पं च । श्रोत्रं चक्षुः घ्राणं क्षुरप्रपरिसंस्थितं रसनम् ॥ २५२॥