________________
तृतीया षट्विशिका अथ तृतीयां षट्रिशिकामाहमूलम् - इंदियविसयपमाया-सवनिद्दकुभावणापणगच्छक्के ।
छसु काएसु सजयणो, छत्तीसगुणो गुरू जयउ ॥४॥ छाया - इन्द्रियविषयप्रमादा-स्रवनिद्राकुभावनापञ्चकषट्के ।
षट्सु कायेषु सयतनः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥४॥ प्रेमीया वृत्तिः - इन्द्रियविषयप्रमादास्रवनिद्राकुभावनापञ्चकषट्के-इन्द्रियपञ्चके, विषयपञ्चके, प्रमादपञ्चके, आस्रवपञ्चके, निद्रापञ्चके, कुभावनापञ्चके चेति पञ्चकषट्के, तथा षट्सु कायेषु - पृथ्वीकायादिषु, सयतनः - यतनावान्, एवं षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः ।
व्यासार्थस्त्वयम् - इन्द्रस्य जीवस्य लिङ्गं चिह्नमिन्द्रियम् । उक्तञ्च तत्त्वार्थाधिगमसूत्रवृत्तौ श्रीसिद्धसेनगणिभिः - 'तस्यैवम्प्रकारस्यात्मन इन्द्रस्य लिङ्गं चिह्नमविनाभाव्यत्यन्तलीनपदार्थावगमकारीन्द्रियमुच्यते ॥२/१५॥'
इन्द्रियाणि पञ्चविधानि । तद्यथा - १ स्पर्शनेन्द्रियं, २ रसनेन्द्रियं, ३ घ्राणेन्द्रियं, ४ चक्षुरिन्द्रियं ५ श्रोत्रेन्द्रियञ्च । यदाह तत्त्वार्थाधिगमसूत्रे - 'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥२/२०॥'-.-- इन्द्रियाणां भेदस्वरूपादिकमेवं प्रतिपादितं पुष्पमालायां तद्वृत्तौ च -
'पंचेव इंदियाइं लोयपसिद्धाइं सोयमाईणि ।
दविदियभार्विदियभेयविभिन्नं पुणेक्केक्कं ॥२४७॥ (छाया- पञ्चैव इन्द्रियाणि लोकप्रसिद्धानि श्रोत्रादीनि ।
द्रव्येन्द्रियभावेन्द्रियभेदविभिन्न पुनरेकैकम् ॥२४७॥)