________________
१०
न केषाङ्कुरुते हिंसां, न मिथ्याभाषणन्तथा । न स्तेयं भामिनीभोगं, स गुरुर्गुरुरुच्यते ॥३५१॥
न दोषेहो न वा दम्भी, न स्वर्णादिपरिग्रही । न व्यापारी दुराचारी, न रात्रिभोजनप्रियः ॥ ३५२ ॥ सङ्ग्रही न च धान्यानां, न परानर्थचिन्तकः । न पञ्चविषयासक्तो, न परच्छिद्रवीक्षकः ॥३५३॥ सर्वथा त्यागशीलश्च, सर्वथा ब्रह्मधारकः । एतादृक्षश्च संसेव्यः, सद्गुरुर्भवतारकः ॥३५४॥ गुरुः पिता गुरुर्माता, गुरुर्बन्धुः सखा सुहृत् । गुरुरेव सदा सेव्यः, संसारार्णवतारकः ॥३५५॥ यथाऽयो मणिसंसर्गा- द्रुक्मतां याति भाषते । मूढोऽपि गुरुसद्दृष्ट्या, विद्वत्सु मुकुटायते ॥ ३५६॥
संसारो गहनो भाति, कार्याण्यपि तथैव च । मन्दप्रज्ञश्च लोकोऽयं, विशेषाज्ञानमोहितः ॥ ३५७॥
सद्गुरुः ज्ञानदीपेन, खण्डयञ्जाड्यसन्ततिम् । सन्मार्गे गमयत्येतान्, बोधयन् वस्तुनो गुणान् ॥३५८॥ यस्याश्रित्य पदं नित्यं, यान्ति यास्यन्ति वै ययुः । सत्पथं बहवो भव्याः, स गुरुर्विश्ववल्लभः ॥३५९॥ एकाक्षरप्रदाताऽपि, सन्मार्गबुद्धिदायकः । विज्ञेयो गुरुरेवासौ, नान्यथासिद्धिरस्य वै ॥ ३६० ॥' महोपाध्यायश्रीमेघविजयविरचित-अर्हद्गीतायामप्युक्तम्
'गुरुत्रं गुरुर्दीपः, सूर्याचन्द्रमसौ गुरुः । गुरुर्देवो गुरुः पन्था, दिग्गुरुः सद्गतिर्गुरुः ॥१५॥ सूर्याचन्द्रमसोरुच्छं, पदं शास्त्रे गुरोः स्मृतम् । गुरो: पूर्णानुभावेन, सिद्धियोगो हि निश्चितः ॥१७॥
गुरोर्माहात्म्यम्