SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् वृत्तिः- धनं ज्ञानादि तल्लब्धा धन्यः पुण्यवान् । तस्योपरि निपतति । वचनसरसचन्दनस्पर्श इति वक्ष्यति । कीदृगसौ वचनसरसचन्दनस्पर्शः ? अहितसमाचरणधर्मनिर्वापी अहितमुत्सूत्रं समाचरणं क्रियानुष्ठानं । अहितसमाचरणमेव धर्मस्तापविशेषस्तं निर्वापयत्यपनयति निरस्यति तच्छीलश्चेति । गुरुवदनमलयनिसृत इति गुरोराचार्यादेर्वदनं मुखं तदेव मलयपर्वतस्तस्मान्निसृतो निर्गतः । वचनमेव सरसचन्दनं स्नेहोपबृंहितहितोपदेशगर्भं सरसं तदेव चन्दनं तस्य स्पर्शः शीतो घर्मापनयनसमर्थः । मलये तु सरसचन्दनमार्द्रमभिनवच्छिन्नं । तस्य स्पर्शः घर्मापहारी भवति सुतरां । अथवा रसश्चन्दनस्पर्शः । रसो द्रवता चन्दनपङ्कः सपानीय इत्यर्थः ॥७०॥ एवं च हितोपदेशेनानुगृह्णतः शिष्यानाचार्यस्य कः प्रत्युपकारः शिष्येण विधेय इत्याह - दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥७१॥ वृत्तिः-दुःखप्राप्यप्रतीकारो दुःकर इति वा दुष्प्रतिकारः । मातापितरौ तावदुष्प्रतिकारौ । माता तु जातमात्रस्यैवाभ्यङ्गस्नानस्तनक्षीरदानमूत्राशुचिक्षालनादिनोपकारेण वृद्धिमुपनयति कल्प(ल्य)वार्ताद्याहारप्रदानेनोपकारवती अदृष्टपूर्वस्याकृतोपकारस्य वा अपत्यस्य दुःप्रतिकारा । न हि तस्याः प्रत्युपकारः शक्यते कर्तुम् । पितापि हितोपदेशदानेन शिक्षाग्राहणेन भक्तपरिधानप्रावरणादिनोपग्रहेणानुगृह्णानो दुःप्रतिकारः । स्वामी राजादि त्यानां जलदानाकरादिना कृत्वेत्युपकारकः । भृत्यास्तु न तथा प्रत्युपकारसमर्थाः । प्राणव्ययमहा| यद्यपि श्रियमानयन्ति स्वामिनो भृत्यास्तथापि पूर्वमकृतोपकाराणामेव भृत्यानामुपकारकः स्वामी, भृत्यास्तु कृतोपकाराः प्रत्युपकुर्वन्ति । गुरुराचार्यादिः, स च दुःप्रतिकारः सन्मार्गोपदेशदायित्वात् शास्त्रार्थप्रदानात् संसारसागरोत्तरणहेतुत्वात् इहामुत्र च इहलोके परलोके सुदुर्लभतरः प्रतीकारो यस्य गुरोरिति सुष्ठ दुर्लभतरः प्रतीकार इति ॥७१॥' श्रीमुक्तिविमलगणिविरचित-उपदेशप्रदीपे उक्तम् 'विना भृत्यैर्यथा राज्ञां, न कार्यञ्चलति स्फुटम् । गुरुं विना तथा लोके, न ज्ञानञ्जातु जायते ॥३४९॥ घनध्वान्तगतं वस्तु, प्राकाश्यं नयते यथा । दीपस्तथा पदार्थानां, तत्त्वं बोधयते गुरुः ॥३५०॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy