________________
गुरोर्माहात्म्यम् 'अथवा गुरुप्रसादादिहैव, तत्त्वं समुन्मिषति नूनम् ।
गुरुचरणोपास्तिकृतः, प्रशमजुषः शुद्धचित्तस्य ॥१२/१४॥ वृत्तिः - इहैव इहजन्मन्येव जन्मान्तरसंस्कारं विनापीत्यर्थः ॥१२/१४॥ उभयत्रापि गुरुमुखप्रेक्षित्वमनिवार्यमेवेत्याह -
तत्र प्रथमे तत्त्वज्ञाने, संवादको गुरुर्भवति।
दर्शयिता त्वपरस्मिन्, गुरुमेव सदा भजेत् तस्मात् ॥१२/१५॥ वृत्तिः - प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने । अपरस्मिन्निति गुरूपदर्शिते तत्त्वज्ञाने ॥१२/१५॥ गुरुमेव स्तौति
यद्वत् सहस्रकिरणः, प्रकाशको निचिततिमिरमग्नस्य ।
तद्वद् गुरुरत्र भवेद-ज्ञानध्वान्तपतितस्य ॥१२/१६॥ वृत्तिः - निचिततिमिरमग्नस्य अर्थस्येति शेषः, अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः ॥१२/१६॥ प्रशमरतौ अज्ञातकर्तृकतद्वृत्तौ चोक्तम् - ___ "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि ।
तस्माद्गुराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥६९॥ वृत्तिः- गृणन्ति प्रतिपादयन्ति शास्त्रार्थमिति गुरवः । तदायत्ताः शास्त्रारम्भाः सूत्रपाठप्रवृत्तिरर्थश्रवणप्रवृत्तिश्च गुर्वायत्ताः कालग्रहणस्वाध्यायप्रेषणोद्देशसमुद्देशानुज्ञापरिकराः शास्त्रारम्भाः सर्वेऽपीत्युच्यन्ते । तस्मात् । गुराधनपरेणेति गुरोराराधनमहर्निशं पादसेवा सम्यक्रियानुष्ठानं नृजलमल्लकढौकनं दण्डकग्रहणं तत्प्रवृत्तौ गमनं निर्विचारं तदभिहितानुष्ठानमित्याद्याराधनमभिमुखीकरणं । तत्परेणेति तदुपयुक्तेन भवितव्यमिति ॥६९॥ ___ गुरौ चोपदिशति पुण्यवानहमिति य एवमनुग्राह्यो गुरूणां बहुमन्तव्य एव, न धिक्कार्य इति दर्शयति
धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो, वचनसरसचन्दनस्पर्शः ॥७०॥ (वचनरसश्चन्दनस्पर्श इति पाठान्तरम्)