SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विस्तरेण गुरुगुणकीर्त्तनस्य कारणम् परतीरं प्रापयितुं । क्षमः समर्थो भवेत् । अतस्त्वमप्येवं ज्ञानपूर्वकक्रियापरो भवेत्यर्थः ॥९/१॥' संवेगरङ्गशालायामप्युक्तम् 'गुणसुट्ठियस्स वयणं, महुघयसित्तू व्व पावओ भाइ । गुणहीणस्स न रेहड़, नेहविहूणो जह पईवो ॥८९०७॥' (छाया - गुणसुस्थितस्य वचनं, मधुघृतसिक्त इव पावकः भाति । गुणहीनस्य न राजते, स्नेहविहीनः यथा प्रदीपः ॥८९०७) मार्गपरिशुद्धावप्युक्तम् - ‘तस्माद् गुरुकुलवासः, श्रयणीयश्चरणधनविवृद्धिकृते । गुरुरपि गुणवानेव, श्लाघ्यत्वमुपैति विमलधियाम् ॥१७॥' अतो गुणवानेव गुरुर्गवेषणीयः । गुरोर्गुणा अपरिमिताः । तथापि कतिपयगुरुगुणानां ज्ञानार्थं गुरोर्गुणा अस्मिन् कुलके कीर्त्तिताः । एकस्यां षट्त्रिशिकायां गुरोः षट्त्रिंशद् गुणा वर्णिताः । ईदृश्यः षट्त्रिंशत् षट्त्रिशिका अस्मिन् कुलके प्रतिपादिताः । इत्थमस्मिन् कुलके षण्णवत्यधिकद्वादशशतगुरुगुणाः प्रदर्शिताः । एतान् गुरुगुणान् ज्ञात्वा गुरौ बहुमानः प्रकटनीयः । I ननु किमित्थमतिविस्तरेण गुरुगुणाः कथ्यन्ते ? उच्यते, गुरुः सम्यग्ज्ञानं दत्त्वा जीवान्भीमभवोदधेर्निस्तारयति । ततः परमोपकारित्वात् परमहितचिन्तकत्वाच्च गुरुर्विनयबहुमानार्हः । यदुक्तमुपदेशकल्पवल्ल्याम् 'गृणाति धर्मतत्त्वं यो, गुरूते यश्च मुक्तये । हितः स्वपरयोः ज्ञेयः, स गुरुर्गौरवोचितः ॥१६७॥' किञ्च मोक्षोपदेशपञ्चाशके श्रीमुनिचन्द्रसूरिभिरुक्तम् - 'गुरुर्गृहीतशास्त्रार्थः, परां निःसङ्गतां गतः । मार्तण्डमण्डलसमो, भव्याम्भोजविकाशने ॥ ४६ ॥ गुणानां पालनं चैव, तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरु-र्भवकान्तारतायकः ॥४७॥' योगशास्त्रे तद्वृत्तौ चोक्तम्
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy