________________
६
गुरुगुणकीर्त्तनकारणम्
आश्रित्य गुरुपर्वक्रमलक्षणः सम्बन्धो ज्ञेयः । अस्य ग्रन्थस्य पदार्थाः प्रथमं श्रीवीरेण स्वदेशनायां प्ररूपिताः । ततो गुरुपारम्पर्येण ते ग्रन्थकारस्य गुरुं यावदागताः । तेन ते ग्रन्थकाराय प्रज्ञापिताः । ग्रन्थकारेण तेऽस्मिन्कुलके निबद्धाः । इत्थमिदं कुलकं सर्वज्ञतीर्थकृन्मूलकम् । तत इदं श्रद्धातव्यम् । अस्मिन्नविश्वासो न विधेयः । तर्कानुसारिणः प्रति उपायोपेयभावलक्षणः सम्बन्धो ज्ञेयः । अयं ग्रन्थ उपाय:, गुरुगुणज्ञानं तूपेयम् । उपायादुपेयस्य प्राप्तिर्भवति । अनेन ग्रन्थेन गुरुगुणानां ज्ञानं भवति ।
अथ किमर्थं गुरोर्गुणाः कीर्त्यन्ते ? उच्यते, गुणवानेव गुरुः पदार्थयथावस्थितज्ञानप्ररूपणाभ्यां स्वपरतारणसमर्थो भवति । उक्तञ्च गुरुतत्त्वविनिश्चये तद्वृत्तौ च'आयारे वट्टंतो, आयारपरूवणे असंकियओ । आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइओ ॥ २ / १२१॥
(छाया आचारे वर्त्तमानः, आचारप्ररूपणे अशङ्क्यः ।
आचारपरिभ्रष्टः, शुद्धचरणदेशने भक्तः ॥ २ / १२१ ॥ )
-
वृत्तिः -'आयारे'त्ति | आचारे वर्त्तमानः खल्वाचारप्ररूपणे अशङ्क्यः अशङ्कनीयो भवति । यः पुनराचारपरिभ्रष्टः सः शुद्धचरणदेशने यथावस्थितचारित्रप्ररूपणे भक्तः विकल्पितः शुद्धचरणप्ररूपणाकारी भवति वा न वेत्यर्थः ॥२/१२१॥'
ज्ञानसारे तद्वृत्तौ चोक्तम्
'ज्ञानी क्रियापरः शान्तो भावितात्मा जितेन्द्रियः ।
स्वयं तीर्णो भवाम्भोधेः परं तारयितुं क्षमः ॥९/१॥
वृत्तिः - 'ज्ञानी'ति - हे आत्मन् ! यो ज्ञानी गुरुमुखाद्गृहीतशुद्धसर्वज्ञोक्तागमः । क्रियापरः क्रिया उभयकालावश्यकप्रत्युपेक्षणाहारशुद्धयुग्रविहारादिकास्तासु परस्तत्परः सोद्यमः श्रेष्ठो वेति यावत् । शान्तस्त्यक्तविषयकषायसङ्गः । भावितात्मा भावितः सम्यक्त्वभावनाध्यानशुभाध्यवसायादिभिर्वासित आत्मा मानसिकोपयोगो येन सः । जितेन्द्रियो जितानि विषयेभ्यः परावर्त्य स्ववशे समानीतानि इन्द्रियाणि श्रोत्रादीनि येन सः । पूर्वोक्तसमग्रगुणयुक्तो मुनिः । भवाम्भोधेर्भव एवाम्भोधिः समुद्रस्तस्मात् । स्वयं स्वात्मना । तीर्णः पारं प्राप्तः । परमन्यं शरणागतम् । भव्यप्राणिनमपि । अयमेव तारयितुं भवाम्भोधेः