________________
मङ्गलाभिधेयप्रयोजनसम्बन्धप्रतिपादनम्
भावार्थस्त्वयम्-अस्या अवसर्पिण्याश्चरमतीर्थकृतो मातुः कुक्षौ समुत्पत्तेरनन्तरं तत्पितृसत्कं ज्ञातकुलं हिरण्य- सुवर्ण-धन-धान्य- प्रीति-सत्कारादिभिर्वर्धमानमभवत्। ततः प्रभोर्जन्मनः पश्चाद् द्वादशे दिवसे मातापितृभ्यां बालप्रभोर्गुणानुरूपं ‘वर्धमान’इतिनाम स्थापितम् । एकदा प्रभुरामलकीक्रीडार्थं मित्रैः सह पुराद्बहिर्जगाम। तदेन्द्रेण स्वसभायां प्रभोधैर्यगुणो वर्णितः । ततः केनचिन्मिथ्यादृष्टिदेवेन सर्परूपेण कुमाररूपेण च प्रभुः परीक्षितः । तस्यां परीक्षायां प्रभुमचलितसत्त्वं विलोक्य शक्रेण प्रभोः 'श्रीवीर' इतिनाम कृतम् । तत्राष्टकर्माणि विदारयतीति वीरः, तपसा विराजते इति वीरः, तपोवीर्येण युक्त इति वीरः ।
श्रीवीरप्रभोः श्रीगौतमसद्गोत्र श्रीमदिन्द्र भूत्याद्येकादशगणधरा आसन् । यदुक्तं श्रीनन्दिसूत्रे -
'पढमित्थ इंदभूई बीए पुण होइ अग्गिभूइ ति । तई य वाउभूई तओ वियत्ते सुहम्मे य ॥२०॥
मंडिअ मोरियपुत्ते अकंपिए चेव अयलभाया य । अज्जेय पहासे य गणहरा हुंति वीरस्स ॥२१॥'
(छाया - प्रथमोऽत्र इन्द्रभूतिः द्वितीयः पुनः भवति अग्निभूतिरिति । तृतीयश्च वायुभूतिः ततः व्यक्तः सुधर्मा च ॥२०॥
५
मण्डितः मौर्यपुत्रः अकम्पितः चैव अचलभ्राता च । तार्यश्च प्रभासश्च गणधरा भवन्ति वीरस्य ॥ २१ ॥ )
श्रीवीरस्य श्रीगौतमादिगणधराणाञ्च पादौ नमस्कृत्य ग्रन्थकारेण मङ्गलं कृतम् । शिष्टानामयं समयः-‘क्वचिदपि श्रेयोभूतकार्ये मङ्गलपुरस्सरं प्रवर्त्तनीयम् ।' इति । इदं मङ्गलं विघ्नान् विनाशयति । ततो निर्विघ्नं ग्रन्थसमाप्तिर्भवति ।
'षट्त्रिंशद् गुरुगुणषट्त्रिशिकाः कीर्त्तयिष्यामि' इतिपश्चार्द्धेन ग्रन्थकारेणाभिधेयमभिहितम् । ततो ग्रन्थप्रतिपाद्यविषयो ज्ञायते । तेन जिज्ञासूनां ग्रन्थे प्रवृत्तिर्भवति ।
प्रयोजनसम्बन्धौ तु सामर्थ्यगम्यौ । तत्र ग्रन्थकर्त्तुरनन्तरं प्रयोजनं परोपकारः, श्रोतुरनन्तरं प्रयोजनं गुरुगुणज्ञानम्, द्वयोरपि परम्परं प्रयोजनं मोक्षप्राप्तिः । श्रद्धानुसारिण