________________
४
श्वेतपद्मासनां वीणा - धारिणीं हंसवाहनाम् । श्रुताधिष्ठायिकां देवीं, चित्ते स्मरामि शारदाम् ॥९॥
रत्नशेखरसूरीशं, नमामि दीपिकायुतम् । प्रस्तुतं कुलकं येन, विरचितं सुबोधदम् ॥१०॥ श्रीहेमचन्द्रसूरीशं, भीमभवाब्धितारकम् । वैराग्यदेशनादक्षं, वन्दे गुरुवरं मम ॥११॥
दीपिकागतपाठानां, स्पष्टबोधकृते मया । सरला रच्यते वृत्तिः, प्रेमीया दीपिकानुगा ॥ १२॥ अथ ग्रन्थं प्रारिप्सुर्ग्रन्थकारः प्रथमवृत्ते मङ्गलाभिधेयौ प्रतिपादयतिमूलम् - वीरस्स पए पणमिय, सिरिगोयमपमुहगणहराणं च । गुरुगुणछत्तीसीओ, छत्तीसं कित्तइस्सामि ॥१॥
छाया वीरस्य पदे प्रणम्य, श्रीगौतमप्रमुखगणधराणाञ्च । गुरुगुणषत्रिशिकाः, षट्त्रिंशत् कीर्त्तयिष्यामि ॥१॥
1
प्रथमवृत्तम्
प्रेमीया वृत्तिः - वीरस्य - अस्या अवसर्पिण्याश्चरमजिनेशितुः, श्रीगौतमप्रमुखगणधराणाम्-गौतम :- श्रीवीरविभोः प्रथमः शिष्य इन्द्रभूतिनामा गौतमगोत्रवत्त्वाद् 'गौतम' इतिप्रसिद्धनामा, प्रमुखः मुख्यः, गौतमः प्रमुखो येषामग्निभूत्यादिदशगणधराणामिति गौतमप्रमुखाः, गणं - साधुसमुदायं धारयन्ति - योगक्षेमकरणेन पालयन्तीति गणधराः, तीर्थाधिपमुख्यशिष्या इत्यर्थः, गौतमप्रमुखाश्च ते गणधराश्चेति गौतमप्रमुखगणधराः, श्रिया - बाह्याभ्यन्तरशोभया युक्ताश्च ते गौतमप्रमुखगणधराश्चेति श्रीगौतमप्रमुखगणधराः, तेषाम्, चः समुच्चये, पदे - चरणौ, प्रणम्य - प्रकर्षेणहार्दिकबहुमानेन नत्वा-वन्दित्वेति प्रणम्य, बहुमानपुरस्सरं नमस्कृत्येत्यर्थः, षट्त्रिशत्-षट्त्रिंशत्सङ्ख्याकाः, गुरुगुणषट्त्रिशिकाः- गुरोः - अज्ञानान्धकारनिरोधकस्य गुणाः- वैशिष्ट्यानीति गुरुगुणाः, तेषां षट्त्रिशिका :- षट्त्रिंशतः समूहरूपा इति गुरुगुणषट्त्रिशिकाः, ताः कर्मतापन्नाः, कीर्त्तयिष्यामि - कथयिष्यामि । अयं शब्दार्थः ।
-