________________
श्रीरत्नशेखरसूरिविनिर्मितम् गुरुगुणषट्विशत्षट्विशिकाकुलकम्
प्रेमीयवृत्तितद्गुर्जरभावानुवादसमलङ्कृतम् वृत्तिकर्तुर्मङ्गलम्
नन्दनं मरुदेव्याः श्री-नाभिकुलकरात्मजम् । वन्दे प्रथमतीर्थेशं, श्रीऋषभजिनेश्वरम् ॥१॥ नन्दनमचिरादेव्या, विश्वसेनसुतं तथा । स्तौमि षोडशतीर्थेनं, शान्तिनाथप्रभुं मुदा ॥२॥ पुत्ररत्नं शिवादेव्याः, समुद्रविजयात्मजम् । श्रीनेमि नौमि हर्षेण, द्वाविंशतितमं प्रभुम् ॥३॥ वामादेवीसुतं स्तौमि, नृपाश्वसेननन्दनम् । त्रयोविंशं जिनं पार्वं, नीलवर्णतनुच्छवीम् ॥४॥ अङ्गजं त्रिशलादेव्याः, सिद्धार्थराजनन्दनम् । वन्दे जिनं चतुर्विंशं, श्रीवर्धमानतीर्थपम् ॥५॥ सर्वानपि जिनानन्यान्, भवाब्धौ पोतसन्निभान् । प्रणमामि प्रमोदेन, लोकालोकप्रकाशकान् ॥६॥ वीरस्य प्रथमं शिष्यं, प्रभुक्रमसमर्पितम् । अनन्तलब्धिसन्दोहं, गौतमस्वामिनं स्तुवे ॥७॥ निर्गतमर्हतां वक्त्राद्, गणधरादिगुम्फितम् । अज्ञाननाशकं भक्त्या, प्रणमामि जिनागमम् ॥८॥