________________
२३६
एकविधः संवेगः ___ मोक्षाभिलाषरूपः संवेगः । उक्तञ्च मूलशुद्धिप्रकरणवृत्तौ - · 'संवेग' त्ति संवेगः मोक्षाभिलाषः ।.... ॥१०॥' धर्मसङ्ग्रहण्यामप्युक्तम् -
'णरविबुहेसरसोक्खं दुक्खं विय भावओ उ मण्णंतो।
संवेगओ ण मोक्खं मोत्तूणं किंचि पत्थेइ ॥८०९॥' (छाया- नरविबुधेश्वरसौख्यं दुःखमेव भावतुस्तु मन्यमानः ।
संवेगतो न मोक्षं मुक्त्वा किञ्चित् प्रार्थयति ॥८०९॥ यद्वा सम्यक्त्वपूतान्त:करणानां मोक्षसाधकयोगेषु मानसप्रमोदरूपः संवेगः । यदुक्तं संवेगरङ्गशालायाम् -
'जह जह सुअमवगाहइ, अइसयरसपसरसंजुअमपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए ॥१३४२॥ जह जह संवेगरसो, वन्निज्जइ तह तहेव धन्नाणं । भिज्जंति खिप्पं जलनि-म्मियामकुंभुव्व हिययाइं ॥४९॥ सारोऽवि य एसो च्चिय, दीहरकालंपि चिन्नचरणस्स । जम्हा तं चिय कंडं, जं विंधइ लक्खमज्झे वि ॥५०॥ सुचिरंपि तवं तविअं, चिन्नं चरणं सुअंपि बहु पढिअं। जइ न हु संवेगरसो, ता तं तुसखंडणं सव्वं ॥५१॥ तह संवेगरसो जइ खणं पि न समुच्छलेज्ज दिवसंतो । ता विहलेण किमिमिणा, बज्झाणुढाणकट्टेणं ॥५२॥ पक्खंतो मासंतो, छम्मासंतो व वच्छरंतो वा।
जस्स न स होज्ज तं जाण, दूरभव्वं अभव्वं वा ॥५३॥' (छाया- यथा यथा श्रुतमवगाहते, अतिशयरसप्रसरसंयुतमपूर्वम् ।
तथा तथा प्रह्लादते मुनिः, नवनवसंवेगश्रद्धया ॥१३४२॥ यथा संवेगरसो, वर्ण्यते तथा तथैव धन्यानाम् । भिद्यन्ते क्षिप्रं जलनिर्मितामकुम्भ इव हृदयानि ॥४९॥