________________
२३५
स्वाध्यायस्य विधिः 'साम्प्रतं स्वाध्यायद्वारं विवरीतुकामस्तद्गुणानाचष्टे -
सज्झाएण पसत्थं, झाणं जाणइ य सव्वपरमत्थं ।
सज्झाए वर्सेतो, खणे खणे जाइ वेरग्गं ॥३३८॥ (छाया- स्वाध्यायेन प्रशस्तं, ध्यानं जानाति च सर्वपरमार्थम् ।
स्वाध्याये वर्तमानः, क्षणे क्षणे याति वैराग्यम् ॥३३८॥) वृत्तिः - 'सज्झाएण' गाहा, स्वाध्यायेन वाचनादिना क्रियमाणेन प्रशस्तं धर्मशुक्लरूपं ध्यानं भवति, जानाति च तत्कर्ता सर्वं परमार्थं समस्तस्यापि जगतस्तत्त्वं, स्वाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यं, रागादिविषमन्त्ररूपत्वात् तस्य ॥३३८॥ कथं सर्वपरमार्थं जानातीत्याह -
उड्डमहतिरियनरया, जोइसवेमाणिया य सिद्धी य ।
सव्वो लोगालोगो, सज्झायविउस्स पच्चक्खो ॥३३९॥ (छाया- ऊर्ध्वमधस्तिर्यग्नरकाः, ज्योतिर्वैमानिकाश्च सिद्धिश्च ।
सर्वो लोकालोकः, स्वाध्यायविदः प्रत्यक्षः ॥३३९॥) वृत्तिः - ‘उड्ड०' गाहा, इह यथासम्भवं पदानां सम्बन्धात् स्वाध्यायविदो वाचनादिवेदिन ऊर्ध्वं वैमानिकाः सिद्धिश्च प्रत्यक्षा, अधो नरकास्तिर्यग्ज्योतिष्काः किं वानेन ? सर्वो लोकालोकः स्वाध्यायविदः प्रत्यक्ष इति तदुपयुक्तोऽसौ समस्तार्थान् साक्षादिव पश्यतीति भावार्थः ॥३३९॥ व्यतिरेकमाह -
जो निच्चकालतव-संजमुज्जुओ न वि करेइ सज्झायं ।
अलसं सुहसीलजणं, न वि तं ठावेइ साहुपए ॥३४०॥ (छाया- यः नित्यकालं तप:संयमोधुक्तः नापि करोति स्वाध्यायम् ।
अलसं सुखशीलजनं, नापि तं स्थापयति साधुपदे ॥३४०॥) वत्तिः - 'जो' गाहा, यो नित्यकालं तपःसंयमोद्यतः सदाप्रमाद्यपिशब्दस्येह सम्बन्धान्न करोति स्वाध्यायंस किमित्याह - अलसं कर्त्तव्येषु शिथिलमत एव सुखशीलजनं सातलम्पटलोकं नापि नैव तं निजशिष्यवर्गादिकं स्थापयति साधुपदे स्वाध्यायमन्तरेण ज्ञानाभावात्, कथञ्चित् स्वयमप्रमादिनाऽपि न परत्राणं कर्तुं शक्यमित्यभिसन्धिः ॥३४०॥'