________________
२३४
स्वाध्यायस्य विधिः
इत्यध्यवसायः पर्यायश्चाऽस्खलितचारित्रपर्यायो भावपर्यायौ ताभ्यां योगतः सङ्गत्या । 'भावपरिवागजोगओ 'त्ति पाठान्तरमाश्रित्य भावः परिणामस्तस्य परिपाकः परिणतिः, अपरिणामित्वातिपरिणामित्वपरिहारेण परिणामित्वमित्यर्थस्तद्योगतस्तत्सङ्गत्या विधि : विज्ञेयो बोद्धव्यः । अयं भावः - अर्थग्रहणे पर्यायेण प्राप्तोऽपि अपरिणामी अतिपरिणामी चाऽयोग्य इति तत्परिहारेण परिणामिन्येवार्थन्यास इति विधिः ॥ १२९ ॥
अर्थग्रहणविधिमेव विशेषत आह
-
मंडलिनिसिज्ज अक्खाकिइकम्मुस्सग्ग वंदणं जिट्ठे । ओगो संवेगो ठाणे पसिणो य इच्चाइ ॥१२/१०॥
(छाया- मण्डली निषद्याऽक्षाः कृतिकर्मोत्सर्गो वन्दनं ज्येष्ठे । उपयोगः संवेगः स्थाने प्रश्नश्चेत्यादि ॥ १२ / १०|)
वृत्तिः - मण्डली साधूनां यथापर्यायं गोलाकारावस्थानं यत्र वा तद् व्याख्यानादिस्थानम् । क्वचिद् ग्रन्थान्तरे मज्जन इतिपाठस्तथा च मण्डलीस्थानप्रमार्जनम् । निषद्याऽऽसनविशेषो गुर्वादेः, आदिपदात् स्थापनाचार्यस्याऽक्षाणां मनागुच्चतरा । अक्षाः चन्दनका उपनीयन्ते, क्वचित् 'सिक्खा' 'सक्खा' चापपाठ इति नाद्रियते कृतिकर्म वन्दनमाचार्यस्य । कायोत्सर्गः अनुयोगार्थमूर्ध्वस्थानम् । ज्येष्ठे ज्येष्ठविषयं वन्दनम्, इह भाषमाणो भवति ज्येष्ठः, न तु पर्यायेण, ततो वन्देत तमेवेति । उपयोग ः समीपयोगः प्रस्तावाच्च सूत्रार्थव्याख्यानश्रवणविषयः अवितथभावः, एतल्लिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्च । उक्तं च
-
'उवओगो पुण एत्थ विण्णेओ समीवजोगो त्ति ।
विहियकिरियागओ खलु अवितहभावो उ सव्वत्थ ॥७६॥' ( योगशतकम् )
(छाया - उपयोगः पुनरत्र विज्ञेयः समीपयोग इति ।
विहितक्रियागतः खलु अवितथभावस्तु सर्वत्र ॥७६॥
संवेगः अहोभावस्तदभिव्यञ्जको वा रोमाञ्चगद्गदध्वन्यादिः । उक्तं च- 'जह जह नवनवसुअमभिगाहइ तह तह संवेगमेइ ।' (छाया- यथा यथा नवनवश्रुतमभिगाहते तथा तथा संवेगमेति ।) स्थाने योग्यावसरे प्रश्नः पृच्छा चः समुच्चय आदिपदात् प्रतिप्रश्नादिग्रहणमवसेयमिति ॥१२/१०॥'
स्वाध्यायस्य गुणा एवं प्रोक्ता उपदेशमालायां तद्वृत्तौ च
-