SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ स्वाध्यायस्य विधिः (छाया- पर्यायेण प्राप्तं सुगुरुसकाशात् कालयोगेन । उद्देशादिक्रमयुतं सूत्रं ग्राह्यमिति ग्रहणविधिः ॥१२/७॥ वृत्तिः - पर्यायेण दीक्षापर्यायेण प्राप्तं क्रमागतं सूत्रं पूर्वोक्तस्वरूपं कालयोगेन कालो त्रिपञ्चादिवर्षलक्षणस्तद्योगेन तत्सङ्गत्या यदि वा पदैकदेशे पदोपचारात् कालग्रहणयोगोद्वहनेन सुगुरुसकाशात् सुगुरुः पूर्वोक्तस्वरूपो गुणगुरुस्तस्य सकाशात् पाश्र्वात् उद्देशादिक्रमयुतम् उद्देशसमुद्देशादिक्रमसङ्गतं ग्राह्यं ग्रहीतव्यम् इतिर्निदर्शने ग्रहणविधिः सूत्रग्रहणविधानमिति ॥१२/७॥ उक्तः सूत्रग्रहणविधिरथ दानविधिमाह - एसु च्चिय दाणविही नवरं दाया गुरूऽथ एयस्स । गुरुदिट्ठो वा जो अक्खयचारित्तजुत्तु त्ति ॥१२/८ ॥ (छाया - एष एव दानविधिः केवलं दाता गुरुरथ एतस्य । गुरुसन्दिष्टो वा यो अक्षतचारित्रयुक्त इति ॥ १२ / ८) २३३ वृत्ति: - एतस्य सूत्रस्य दानविधिः प्रयच्छनविधानम् एष एवानन्तरोक्तः 'पत्तं परियाएणं' इत्यादिरेव नवरं प्राकृतत्वात् केवलं दाता प्रयच्छको यः अनिर्दिष्टनामा अक्षतचारित्रयुक्तः अक्षुण्णमहाव्रतधारक एव इतिशब्दोऽवधारणे स गुरुरथवा गुरुसन्दिष्टो वा गुर्वनुज्ञातः सूत्रदाता अथशब्दो विकल्प इति ॥१२/८ ॥ अथार्थग्रहणविधिमाह - अत्थगहणे उ एसो विन्नेओ तस्स तस्स य सुयस्स । तह चेव भावपरियागजोगओ आणुपुव्वीए ॥१२/९॥ (छाया - अर्थग्रहणे तु एष विज्ञेयः तस्य तस्य च सूत्रस्य । तथैव भावपर्याययोगतः आनुपूर्व्या ॥१२/९॥ वृत्तिः - तस्य तस्य चाऽऽवश्यकदशवैकालिकादे: सूत्रस्य पूर्वोक्तस्वरूपस्य अर्थ - ग्रहणे अभिधेयग्रहणे तुशब्दो विशेषे स च वक्ष्यत एव एष विधिर्यथा सूत्रग्रहणे 'पत्तं परियाएणं' इत्यादिस्तथैव तेनैव प्रकारेण आनुपूर्व्या परिपाट्या तथाहि - प्रथमं तावदावश्यकं ततो दशवैकालिकं तत उत्तराध्ययनानि तत आचाराङ्गमित्यादिरूपया । अथ विशेषमाह - भावपर्याययोगतो भावश्च यथा सूत्रं तथा सूत्रार्थोऽपि परममन्त्ररूप
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy