________________
२३२
स्वाध्यायस्य विधिः एवं च शृण्वद्भिर्गुरोरतीव परितोषो भवति, ततश्च किमित्याह -
गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं ।
इच्छ्यिसुत्तत्थाणं खिप्पं पारं समुवयंति ॥२५॥ (छाया- गुरुपरितोषगतेन गुरुभक्त्या तथैव विनयेन ।
इष्टसूत्रार्थानां क्षिप्रं पारं समुपयान्ति ॥२५॥) वृत्तिः - गुरुपरितोषगतेन-गुरुपरितोषजातेन सता गुरुभक्त्या-तत्सेवारूपया तथैव विनयेन-आसनप्रदानादिरूपेण, किमित्याह - क्षिप्रं शीघ्रमीप्सितसूत्रार्थयोः पारमुपयान्ति, इति गाथार्थः ॥२५॥ अन्यत्राप्युक्तम् -
'इरिअं सुपडिक्कतो, पसन्नचित्तो अ सुगु पिहिअमुहो । सुत्तं दोसविमुक्कं, सपयच्छेयं गुणे निच्चं ॥ जिणवरपवयणपायडण-पउणगुरुवयणमुणियसमपुव्वे । एगग्गमणो धणियं, चित्ते चिंतिज्ज सुवियारे ॥ सुद्धं धम्मुवएसं, गुरुप्पसाएण सम्ममवबुद्धं ।
सपरोवयारजणगं, जोग्गस्स कहिज्ज धम्मत्थी ॥' (छाया- ईयाँ सुप्रतिक्रान्तः, प्रसन्नचित्तः च सुष्ठ पिहितमुखः ।
सूत्रं दोषविमुक्तं, सपदच्छेदं गुणयेत् नित्यम् ॥ जिनवरप्रवचनप्रकटन-प्रगुणगुरुवचनज्ञातसर्वपूर्वः । एकाग्रमना अत्यन्तं, चित्ते चिन्तयेत् सुविचारान् ॥ शुद्धं धर्मोपदेशं गुरुप्रसादेन सम्यगवबुद्धम् ।
स्वपरोपकारजनकं, योग्यस्य कथयेत् धर्मार्थी ॥) श्रीहरिभद्रसूरिविरचितविंशतिर्विशिकासु श्रीकुलचन्द्रसूरिकृततद्वृत्तौ चोक्तम् - 'अथ सूत्रग्रहणविधिमाह -
पत्तं परियाएणं सुगुरुसगासाउ कालजोगेण । उद्देसाइकमजुयं सुत्तं गेझंति गहणविहि ॥१२/७॥