SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ स्वाध्यायस्य विधिः अभयकुमारः श्रुत्वा भाषितं तत् जिनस्य ततः क्षिप्रम् । गत्वा भणति खेचरं भोः ! तव विद्याया विस्मृतम् ॥६॥ लब्ध्वा अक्षरमहं कथयामि यदि ददासि मह्यं इमां विद्याम् । प्रतिपन्ने खेचरेण पदानुसारित्वलब्ध्या ॥७॥ अभयकुमारस्तं लभते अक्षरं ततः अस्मै दत्त्वा । विद्यां तुष्टः खेचर उत्पतितो गगनमार्गे ॥८॥ तदेवं यथा हीनाक्षरतया खेचरस्य विद्यासाध्यकार्यातिपातः सम्पन्नः एवमत्राप्यक्षरादिहीनतायामभिधेयभेदः तद्भेदात् क्रियाविघातः तद्विघाते चरणविसंवादः तद्विसंवादे निर्वाणाभावः तदभावे च दीक्षावैयर्थ्यं, एवमधिकाक्षरादावपि दोषा अभ्यूह्य वाच्याः इत्यतो यथोक्तगुणैर्विशिष्टमेव सूत्रं पठनीयं, अर्थगतं विधिमाह - तस्य सूत्रस्यार्थस्तदर्थः तस्मिन् श्रूयमाणे मार्जनं, शोधनं भुवः कर्त्तव्यं, निषद्या गुरोर्विरचनीया, अक्षाः चन्दनकास्तत्स्थापना कार्या इत्यादिकः क्रमो विधिः, आदिशब्दात्कृतिकर्मदानादिपरिग्रह इति गाथार्थः ॥२२॥ अथ श्रवणगतमेव विधिमाह - निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेर्हि सुणेयव्वं ॥२३॥ (छाया- निद्राविकथापरिवर्जितैः गुप्तैः प्राञ्जलिपुटैः । भक्तिबहुमानपूर्वं उपयुक्तैः श्रोतव्यम् ॥२३॥) वृत्तिः - पाठसिद्धैव ॥२३॥ पुनरपि कथम्भूतैः श्रोतव्यमित्याह - अभिकखंतेहिं सुहासियाइं वयणाई अत्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥२४॥ २३१ (छाया- अभिकाङ्क्षद्भिः सुभाषितानि वचनानि अर्थसाराणि । विस्मितमुखैः हर्षमागतैः हर्षं जनयद्भिः ॥२४॥) वृत्तिः - एषाऽपि तथैव, नवरं हर्षमागतैः तेनैव च हर्षागमनेनान्येषां संवेगकरणादिना हर्षं जनयद्भिः श्रोतव्यम् ॥२४॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy