SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ स्वाध्यायस्य विधिः २२९ मुक्तासनः कारणे पादपुञ्छनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्राञ्जलिपुट: कृताञ्जलिरिति सूत्रार्थः ॥१/२२॥ ईदृशस्य शिष्यस्य गुरुणा यत्कार्यं तदाह - एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज्ज जहासुअं ॥१/२३॥ (छाया- एवं विनययुक्तस्य सूत्रं अर्थं च तदुभयम् । पृच्छमानस्य शिष्यस्य व्यागृणीयात् यथाश्रुतम् ॥१/२३॥) वृत्तिः - एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थं च तस्यैवाभिधेयं, तदुभयं सूत्रार्थोभयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस्य स्वयं दीक्षितस्योपसम्पन्नस्य वा व्यागृणीयात्कथयेत्, यथा येन प्रकारेण श्रुतमाकर्णितं गुरुभ्य इति शेषः, न तु स्वबुद्धिकल्पितमिति सूत्रार्थः ॥१/२३॥' पुष्पमालातद्वृत्त्योरुक्तम् - 'अखलियमिलियाइगुणे कालग्गहणाइओ विही सुत्ते । मज्जणनिसिज्जअक्खा इच्चाइ कमो तयत्थम्मि ॥२२॥ (छाया- अस्खलितामिलितादिगुणे कालग्रहणादिकः विधिः सूत्रे । मार्जनं निषद्या अक्षा इत्यादिः क्रमः तदर्थे ॥२२॥) वृत्तिः - श्रुतज्ञानं द्विधा-सूत्रतोऽर्थतश्च, तत्र सूत्रे आचारोत्तराध्ययनादिसम्बन्धिनि कालग्रहणादिको विधिः, कालश्च समयचयार्प्रसिद्धः क्रियाविशेषः, आदिग्रहणादुद्देशसमुद्देशानुज्ञादिविधिपरिग्रहः, कथम्भूते सूत्रे इत्याह - उपलशकलाद्याकुलभूभागे लाङ्गलमिव स्खलति यत्तत् स्खलितं, उच्चरतः पदादिविच्छेदो यत्र न प्रतीयते तन्मिलितं, भावप्रधानश्चायं निर्देशः, ततश्चास्खलितं च तदमिलितमिति अस्खलितामिलिते तयोर्भावोऽस्खलितामिलितत्वं तदादिर्येषामहीनाक्षरानत्यक्षरत्वादीनां तेऽस्खलितामिलितत्वादयः, एवम्भूता गुणा यत्र तत्तथा तस्मिन्, एतच्च विशेषणं भणता अहीनाक्षरास्खलितामिलितत्वादिगुणयुक्तं सूत्रं पठनीयमिति विधिरेव कथितो द्रष्टव्यः, अत्राह-हीनाक्षरत्वाद्युपेते सूत्रे समुच्चार्यमाणे कः पुनर्दोषो येनैवं तद्वर्जनमुपदिश्यते, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरहीनत्वाद्युपेतैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे जिनप्रणीतसूत्रे, तथा चानुयोगद्वारचूर्णावुक्तम् -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy