________________
पञ्चविधः स्वाध्यायः
तत्सुविविक्तेऽपि स्वयमसुविवेचिते चक्षुषा रजोहरणेन च परिष्ठापयन्न तत्समित इति ज्ञापनार्थम् ॥३००॥'
आ-मर्यादया सिद्धान्तोक्तन्यायेन अध्ययनं - पठनं आध्यायः, सुष्ठु - शोभन आध्यायः स्वाध्यायः । स पञ्चविधः । तद्यथा १ वाचना, २ पृच्छना, ३ परावर्त्तनम्,
४ अनुप्रेक्षा ५ धर्मकथा च । उक्तञ्च तत्त्वार्थाधिगमसूत्रे तद्भाष्ये च श्रीउमास्वाति
वाचकवर्यैः
२२८
-
'वाचना- प्रच्छना - ऽनुप्रेक्षा -ऽऽम्नाय - धर्मोपदेशाः ॥९ / २५ ॥
भाष्यम् - स्वाध्यायः पञ्चविधः । तद्यथा वाचना, प्रच्छनं, अनुप्रेक्षा, आम्नायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्त्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥९/२५॥'
स्वाध्यायस्य विधिरित्थं ज्ञेयः
-
'पल्हट्ठियमवट्टंभं, तहा पायप्पसारणं । वज्जिज्जा विगहं हासं, अहिज्जंतो सया सुयं ॥'
(छाया - पर्यस्तिकामवष्टम्भं, तथा पादप्रसारणम् ।
विवर्जयेत् विकथां हासं, अधीयानः सदा श्रुतम् ॥) उत्तराध्ययनसूत्रवृत्त्योरुक्तम् -
'आसणगओ ण पुच्छिज्जा, णेव सिज्जागओ कया । आम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउड ॥१/२२॥
-
(छाया - आसनगतो न पृच्छेत्, नैव शय्यागतः कदा ।
आगम्य उत्कुटुकः सन्, पृच्छेत् प्राञ्जलिपुटः ॥ १/२२॥)
वृत्तिः आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः बहुश्रुतेनापि संशये सति प्रष्टव्यं पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह - ' आगम्मे 'त्यादि आगम्य गुरुपार्श्वमेत्य उत्कुटुको
-