SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पञ्चविधा समितिः पञ्च शोधयत्यकरणेन मुनिः, ते चामी - इदानीमादाननिक्षेपणासमितिमाह 'संजोयणा पमाणे इंगाले धूमकारणे चेव त्ति ।' (छाया- संयोजना प्रमाणं अङ्गारः धूमः कारणं चैव इति ।) स साधुरेषणायां समित इत्युच्यते । आजीवी लिङ्गोपजीवको वेषविडम्बकोऽन्यथा एतद्वैपरीत्ये भवति गुणशून्यत्वादिति ॥२९८॥ - पुव्वि चक्खू परिक्खिय, पमज्जिडं जो ठवेइ गिण्हइ वा । आयाणभंडनिक्खेवणाए समिओ मुणी होइ ॥ २९९॥ (छाया - पूर्वं चक्षुषा परीक्ष्य प्रमृज्य यः स्थापयति गृह्णाति वा । आदानभाण्डनिक्षेपणायां समितो मुनिर्भवति ॥ २९९॥ २२७ वृत्तिः - 'पुवि' गाहा, पूर्वं प्रथमं 'चक्खु' त्ति चक्षुषा परीक्ष्याऽवलोक्य प्रदेशं प्रमृज्य रजोहरणेन यः साधुः स्थापयति भाजनादिकं गृह्णाति वा तथैव, स किम् ? आदानेन सह निक्षेपणा आदाननिक्षेपणा भाण्डस्योपकरणस्यादाननिक्षेपणा भाण्डादाननिक्षेपणा, गाथायां तु भाण्डशब्दस्य मध्यनिपातः प्राकृतशैल्या, तस्यां समितो मुनिर्भवति ॥ २९९॥ अधुना पञ्चमसमितिमधिकृत्याह उच्चारपासवणखेलजल्ल-सिंघाणए य पाणविही । सुविवेइए पएसे, निसिरंतो होइ तस्समिओ ॥ ३००॥ (छाया - उच्चारप्रस्रवणखेलजल्लसिङ्घानकांश्च प्राणिविधीन् । सुविवेचिते प्रदेशे, निःसृजन् भवति तत्समितः ॥३००|) वृत्तिः - 'उच्चार० ' गाहा, उच्चारः पुरीषं, प्रस्रवणं मूत्रं, खेलः श्लेष्मा, जल्लो देहमलः, सिंहानको नासिकामलः, उच्चारश्च प्रस्रवणं चेत्यादिद्वन्द्वः, तान्, चशब्दादतिरिक्ताऽशुद्धभक्तपानोपकरणानि च प्राणिविधीन् जन्तुभेदाननेकाकारान् कथञ्चिदुपकरणादावापतितान् सुविवेचिते प्रदेशे निःसृजन् परिष्ठापयन् भवति तत्समितः परिष्ठापनासमित इति । इह च सुविविक्ते स्थाने स्थावरजङ्गमजन्तुरहिते प्रदेशे इति वक्तव्ये सुविवेचिते यदुक्तं
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy