SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२६ पञ्चविधा समितिः वृत्तिः - 'बायाल०' गाहा, द्विचत्वारिंशदेष्यते अन्विष्यते पिण्डो यकाभिस्ता एषणा आधाकर्मादिकदोषाः सामान्यव्युत्पत्त्या गृह्यन्ते । तत्रोद्गमदोषाः षोडश ते चामी - 'आहाकम्मुद्देसिय-पूइयकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाओयरकीयपामिच्चे ॥१॥ परियट्टिए अभिहडे, उब्भिन्ने मालोहडे य अच्छिज्जे । अणिसिढेझोयरए सोलस पिंडोग्गमे दोसा ॥२॥' (छाया- आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका, प्रादुष्करणं क्रीतं अपमित्यम् ॥१॥ परिवर्तितं अभिहृतं, उद्भिन्नं मालापहृतं च आच्छेद्य । अनिसृष्टं अध्यवपूरकं, षोडश पिण्डोद्गमे दोषाः ॥२॥) उत्पादनादोषा अपि षोडश, ते चाऽमी - 'धाई दूइनिमित्ते, आजीववणीमगे तिगिच्छा य । कोहे माणे माया-लोभे य हवंति दस एए ॥३॥ पुचि पच्छासंथव-विज्जामंते य चुन्नजोगे य। उप्पायणाइ दोसा, सोलसमे मूलकम्मे य ॥४॥' (छाया- धात्री दूती निमित्तं, आजीवः वनीपकः चिकित्सा च । क्रोधः मानः माया, लोभश्च भवन्ति दश एते ॥३॥ पूर्वपश्चात्संस्तवः, विद्या मन्त्रश्च चूर्णं योगश्च । उत्पादनायां दोषाः, षोडशः मूलकर्म च ॥४॥) एषणादोषाः दश, ते चैते - 'संकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड्डिय, एसणदोसा दस हवंति ॥' (छाया- शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिश्रम् । अपरिणतं लिप्तं छर्दितं, एषणदोषा दश भवन्ति ॥) एते सर्वेऽपि मीलिता द्विचत्वारिंशदेषणा उक्ताः मकारस्त्वागमी, तथा भोजनदोषाँश्च
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy