________________
पञ्चविधा समितिः
२२५ 'साम्प्रतमेनामेव प्रतिपदं व्याचष्टे, तत्राद्यं समितिपदं ताश्च पञ्चाऽतस्तावदाद्यामधिकृत्याह -
जुगमित्तंतरदिट्ठी, पयं पयं चक्खुणा विसोहितो।
अव्वक्खित्ताउत्तो, इरियासमिओ मुणी होइ ॥२९६॥ (छाया- युगमात्रान्तरदृष्टिः, पदं पदं चक्षुषा विशोधयन् ।
अव्याक्षिप्तः आयुक्तः, ईर्यासमितः मुनिः भवति ॥२९६॥) वृत्तिः - 'जुग' गाहा, युगमात्रमन्तरमन्तरालं यस्याः सा तथा, युगमात्रान्तरा दृष्टिर्यस्येति समासः । इह चातिदूरात्यासन्ननिरीक्षणे जन्त्वदर्शनयोगातिप्रवृत्तिदोषाधुगमात्रक्षेत्रनियमनं, पदं पदं चक्षुषा विशोधयन् पार्श्वयोः पृष्ठतश्चोपयोगं ददन्नित्यर्थः, अव्याक्षिप्तः शब्दादिषु रागद्वेषावगच्छन्नायुक्तो धर्मध्यानोपयुक्तः सन् किं ?, ईरणमीर्या गमनमित्यर्थः, तस्यां सम्यगितः ईर्यासमितः, यथोक्तगमनानुष्ठायी मुनिर्भवतीति ॥२९६॥ अधुना भाषासमितिमुररीकृत्याह -
कज्जे भासइ भासं, अणवज्जमकारणे न भासइ य ।
विगहविसुत्तियपरि-वज्जिओ य जइ भासणासमिओ ॥२९७॥ (छाया- कार्ये भाषते भाषां, अनवद्यामकारणे न भाषते च ।
विकथाविश्रोतसिकापरि-वर्जितश्च यतिः भाषणासमितः ॥२९७॥) वृत्तिः - 'कज्जे' गाहा, कार्ये ज्ञानादिविषये भाषते भाषां, तत्राप्यनवद्यामपापाम्, अकारणे पुनर्निष्प्रयोजनं न भाषते च न जल्पत्येव, अत एवाह - विकथा स्त्रीकथादिः, विश्रोतसिका दुष्टान्तर्जल्परूपा, ताभ्यां परि समन्ताद् वर्जितो विकथाविश्रोतसिकापरिवर्जितः, चशब्दात् षोडशवचनविधिज्ञश्च यतिः साधुः भाषणं भाषणा वाक् तस्यां समितो भाषणासमित इति ॥२९७॥ साम्प्रतमेषणासमितिमुररीकृत्याह -
बायालमेसणाओ, भोयणदोसे य पंच सोहेइ ।
सो एसणाइ समिओ, आजीवी अन्नहा होइ ॥२९८॥ (छाया- द्विचत्वारिंशदेषणाः, भोजनदोषांश्च पञ्च शोधयति ।
स एषणायां समितः, आजीवी अन्यथा भवति ॥२९८॥)