________________
२२४
पञ्चविध आचारः चारः, ४ तपआचारः ५ वीर्याचारश्च । यदुक्तं श्रीदशवैकालिकसूत्रनिर्युक्तौ हरिभद्रसूरिहब्धतद्वृत्तौ च -
'दंसणनाणचरित्ते तवआयारे य वीरियायारे।
एसो भावायारो पंचविहो होइ नायव्वो ॥१८१॥ (छाया- दर्शनज्ञानचारित्रे तपआचारे च वीर्याचारे ।
एष भावाचारः पञ्चविधो भवति ज्ञातव्यः ॥१८१॥) वृत्तिः - दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति । तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं, तच्च क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं शेषेष्वपि योजनीयं, भावार्थं तु वक्ष्यति एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इति गाथाक्षरार्थः ॥१८॥
तत्र ज्ञानाचार-दर्शनाचार-चारित्राचारस्वरूपं षष्ठषट्विशिकावृत्तौ वक्ष्यते । द्वादशविधं तप एव तपआचारः । तत्स्वरूपं प्रथमषट्विशिकावृत्तौ प्रोक्तम् । अनिगूहितबलवीर्यस्य ज्ञानादिषु यथाशक्ति प्रवर्तनरूपो वीर्याचारः । स मनोवाक्कायभेदात् त्रिविधः । तत्स्वरूपं पञ्चत्रिंशत्तमषट्विशिकावृत्तौ वक्ष्यते ।
समितिः शोभनप्रवृत्तिरूपा । सा पञ्चप्रकारा । तद्यथा - १ ईर्यासमितिः, २ भाषासमितिः, ३ एषणासमितिः, ४ आदाननिक्षेपणासमितिः ५ परिष्ठापनासमितिश्च । यदाहुः पुष्पमालायां तद्वत्तौ च -
'इरिया भासा एसण आयाणे तह परिटुवणसमिई ...॥१७०॥ (छाया- ईर्या भाषा एषणा आदानं तथा परिष्ठापनसमितिः ।....॥१७०॥)
वृतिः - सम्यक् - सर्वज्ञप्रवचनानुसारितया इतिः आत्मनश्चेष्टा समितिरिति तान्त्रिकी सञ्ज्ञा, समितिशब्दस्य सर्वत्र योगाद् ईरणमीर्या-गमनागमनचेष्टा तद्विषया समितिरीर्यासमितिः, एवं भाषासमितिः एषणासमितिः, 'आयाणे' त्ति एकारस्यालाक्षणिकत्वात् देशेन च समुदायगमनाद् आदानं पीठफलकादेर्ग्रहणं निक्षेपणं-तस्यैव मोचनं तद्विषया समितिरादाननिक्षेपणासमितिः, तथा परिष्ठापनसमितिरित्येताः पञ्च समितयः ।'
समितीनां स्वरूपमेवं प्रोक्तमुपदेशमालायां तद्वृत्तौ च -