________________
पञ्चविधो व्यवहारः
२२३ शक्नोति, अगीतार्थस्तु कश्चित्तत्र गन्ता विद्यते, तस्य हस्ते आगमभाषया गूढान्यपराधपदानि लिखित्वा यदा शिष्यः प्रस्थापयति गुरुरपि तथैव गूढपदैः प्रायश्चित्तं लिखित्वा प्रेषयति तदाऽसौ आज्ञालक्षणस्तृतीयो व्यवहारो द्रष्टव्य इति गाथार्थः ॥३६०॥ धारणाव्यवहारमाह -
गीयत्थेणं दिन्नं सुद्धि अवधारिऊण तह चेव ।
दितस्स धारणा सा उद्धियपयधरणरूवा वा ॥३६१॥ (छाया- गीतार्थेन दत्तां शुद्धि अवधार्य तथैव ।।
ददतो धारणा सा उद्धृतपदधारणरूपा वा ॥३६१॥) वृत्तिः - इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य क्वचिदपराधे द्रव्याद्यपेक्षया या शुद्धिः प्रदत्ता तां शुद्धि तथैवावधार्य सोऽपि शिष्यो यदाऽन्यत्रापि तद्रूप एव अपराधे तथैव प्रयुङ्क्ते तदाऽसौ धारणा नाम चतुर्थो व्यवहार इष्यते, उद्धृतपदधरणरूपा वा धारणा, इदमुक्तं भवति-वैयावृत्यकरणादिना कश्चिद्गच्छोपकारी साधुः अद्याप्यशेषच्छेदश्रुतयोग्यो न भवति, ततस्तस्यानुग्रहं कृत्वा यदा गुरुरुद्धृतान्येव कानिचित् प्रायश्चित्तपदानि कथयति तदा तस्य तेषां पदानां धरणं धारणाऽभिधीयते इति गाथार्थः ॥३६१॥ जीतव्यवहारमाह -
दव्वाइ चिंतिऊणं संघयणाईण हाणिमासज्ज ।
पायच्छित्तं जीयं रूढं वा जं जहिं गच्छे ॥३६२॥ (छाया- द्रव्यादि चिन्तयित्वा संहननादीनां हानिमाश्रित्य ।
प्रायश्चित्तं जीतं रूढं वा यत् यत्र गच्छे ॥३६२॥) वृत्तिः - येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कुर्वन्तस्तेष्वप्यपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य समुचितेन केनचित्तप:प्रकारेण यां गीतार्थाः शुद्धि निर्दिशन्ति तत् समयपरिभाषया जीतमुच्यते, अथवा यद् यत्र गच्छे सूत्रातिरिक्तं कारणतः प्रायश्चित्तं प्रवर्तितं तत्तत्र रूढं जीतमुच्यत इति गाथार्थः ॥ तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते, न त्वगीतार्थः ॥३६२॥'
आचरणमाचारः । स पञ्चधा । तद्यथा - १ ज्ञानाचारः, २ दर्शनाचारः, ३ चारित्रा