SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२२ पञ्चविधो व्यवहारः प्ररूपणादिप्रकारेण व्यवहियते जीवादिवस्त्वनेनेति व्यवहारः । स पञ्चविधः । तद्यथा - १ आगमव्यवहारः, २ श्रुतव्यवहारः, ३ आज्ञाव्यवहारः, ४ धारणाव्यवहारः ५ जीतव्यवहारश्च । उक्तञ्च श्रीपुष्पमालायां तद्वृत्तौ च - _ 'तत्र पञ्चप्रकारव्यवहारस्वरूपदर्शनार्थमाह - आगम सुय आणा धारणा य जीयं च होइ ववहारो। केवलिमणोहिचउदसदसनवपुव्वाइं पढमोऽत्थ ॥३५७॥ (छाया- आगमः श्रुतं आज्ञा धारणा च जीतं च भवति व्यवहारः । केवलिमनअवधिचतुर्दशनवपूर्वाणि प्रथमोऽत्र ॥३५७॥) वृत्तिः - व्यवह्रियन्ते जीवादयोऽनेनेति व्यवहारः, अथवा व्यवहरणं व्यवहारः मुमुक्षुप्रवृत्तिनिवृत्तिरूपस्तत्कारणत्वात् ज्ञानविशेषा अपि व्यवहारः, स पञ्चभेदः, तद्यथा - आगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः १, श्रवणं श्रूयत इति वा श्रुतं २ आज्ञायतेआदिश्यत इत्याज्ञा ३ धरणं धारणा ४ जीयत इति जीतं ५, तत्र प्रथम आगमव्यवहार: क इत्याह-केवलज्ञानं मनःपर्यायज्ञानं अवधिज्ञानं चतुर्दश पूर्वाणि दश पूर्वाणि नव पूर्वाणि एषः सर्वोऽप्यागमव्यवहार उच्यत इति गाथार्थः ॥ इह च यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते, तदभावे मनःपर्यायज्ञानिनः, तस्याप्यभावे अवधिज्ञानिन इत्यादि यथाक्रमं वाच्यम् ॥३५७॥ तत्र प्रस्तुतश्रुतादिव्यवहारनिरूपणार्थमाह - आयारपगप्पाई सेसं सव्वं सुयं विणिद्दिटुं। देसंतरट्ठियाणं गूढपयालोयणा आणा ॥३६०॥ (छाया- आचारप्रकल्पादि शेषं सर्वं श्रुतं विनिर्दिष्टम् । . देशान्तरस्थितानां गूढपदालोचना आज्ञा ॥३६०॥) वृत्तिः - आचारप्रकल्पो-निशीथस्तदादिकं कल्पव्यवहारदशाश्रुतस्कन्धप्रभृतिकं शेषंश्रुतं सर्वमपि श्रुतव्यवहारः, चतुर्दशादिपूर्वाणां श्रुतत्वाविशेषेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वात् केवलादिवदागमत्वेनैव तानि व्यपदिष्टानि, देशान्तरस्थितयोर्गुरुशिष्ययोगूढपदालोचना त्वाज्ञाऽभिधीयते, इदमुक्तं भवति-केनापि शिष्येणालोचनाचार्यः सन्निहितो न प्राप्तो, दूरे त्वसौ तिष्ठति, ततः केनचित् कारणेन स्वयं तावत्तत्र गन्तुं न
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy