________________
पञ्चविधं व्रतम्
२२१ चतुर्थमाह -
दिव्यौदारिककामानां कृतानुमतिकारितैः ।
मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥१/२३॥ वृत्तिः - दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः । औदारिकाश्च औदारिकतिर्यग्मनुष्यदेहप्रभवास्ते च ते काम्यन्त इति कामाश्च तेषां त्यागोऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तच्चाष्टादशधा मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन वेति दिव्ये ब्रह्मणि नव भेदाः । एवमौदारिकेऽपीत्यष्टादश । यदाह - 'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१७७॥' (प्रशमरतिः) इति ॥
कृतानुमतिकारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात्पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ॥१/२३॥ पञ्चममाह -
सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ॥१/२४॥ वृत्तिः - सर्वभावेषु द्रव्यक्षेत्रकालभावरूपेषु यो मूर्छाया गार्द्धयस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहव्रतं स्यात् किं मूर्खात्यागलक्षणेन तल्लक्षणेन ? अत आह - यदसत्स्वपीति । यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मूर्च्छया चित्तविप्लवः स्यात् । चित्तविप्लवः प्रशमसौख्यविपर्यासः । असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसङ्क्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह -
'यद्वत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः ।
तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥१४१॥' (प्रशमरतिः) यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा वतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां, तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥१/२४॥'