________________
२२०
पञ्चविधं व्रतम् वृत्तिः - अहिंसादयश्च पञ्चापि प्रत्येकं पञ्चविधभावनाभ्यहिताः सन्तः स्वकार्यजननं प्रति अप्रतिबद्धसामर्थ्या भवन्तीति पञ्चभिरित्याधुक्तम् ॥१/१९॥ प्रथमं मूलगुणमाह -
न यत्प्रमादयोगेन जीवितव्यपरोपणम् ।
त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ॥१/२०॥ वृत्तिः - प्रमादोऽज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादरभेदादष्टविधः । तद्योगात्त्रसानां स्थावराणां च जीवानां प्राणव्यपरोपणं हिंसा । तन्निषेधादहिंसा प्रथम व्रतम् ॥१/२०॥ द्वितीयमाह -
प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते ।
तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥१/२१॥ वृत्तिः - तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतव्रतमुच्यते । किंविशिष्टं तथ्यं ? प्रियं पथ्यं च, तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात् प्रियपथ्ययोस्तु कोऽधिकार: ? अत आह - तत्तथ्यमपीति व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तज्जन्तुघातहेतुत्वन्न तथ्यम् ॥१/२१॥ तृतीयमाह -
अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।
बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥१/२२॥ वृत्तिः - वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयवतम् । तच्च स्वामिजीवतीर्थकरगुर्खदत्तभेदेन चतुर्विधम् । तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते । तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते । गुर्व्वदत्तं नाम स्वामिना दत्तमाधाकम्मिकादिदोषरहितं गुरूनननुज्ञाप्य यद्गृह्यते । नन्वहिंसापरिकरत्वं सर्वव्रतानामदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यादित्युक्तं बाह्याः प्राणा इत्यादि । यदि स्तेयस्य प्राणहरणस्वरूपं मृग्यते तदा तदस्त्येव ॥१/२२॥