________________
पञ्चविधं व्रतम्
२१९
I
चानुपरिहारका एको वानुपरिहारीति । एवं च पुरुषभेदेनैतदपि द्विधा - निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानकमासेव्यमानकमुपभुज्यमानमित्यर्थः । निर्विष्टकाकिं चासेवितमुपभुक्तं तत्सहयोगात्तदनुष्ठायिनोऽपि निर्विश्यमानका निर्विष्टकायिकाश्चोच्यन्ते । एषां चैतच्चारित्रमष्टादशभिर्मासैः परिसमाप्यते, तत्समाप्तौ च केचित्तदेव पुनः प्रतिपद्यन्ते, केचित्तु जिनकल्पमन्ये स्वगच्छं वा विशन्ति । परिहारविशुद्धिकाश्च स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव न मध्यमतीर्थेष्विति । 'तह सुहुमसंपरायं' इति ' तथा ' समुच्चये । सूक्ष्मः सूक्ष्मकिट्टीकृतः सम्परायः कषायो लोभलक्षणो यत्र तत्सूक्ष्मसम्परायम्, तच्च सङ्क्लिश्यमानकविशुध्यमानकभेदाद्द्विधा । तत्रोपशमश्रेण्याः प्रतिपतत आद्यम्, क्षपकश्रेण्युपशमश्रेण्योरारोहतो द्वितीयम् । क्षपकोपशमश्रेणिस्वरूपं तु
" अणमिच्छमीससम्मं, अट्ठ नपुंसित्थिवेयछक्कं च ।
पुमवेयं च खवेई, कोहाईए अ संजलणे ॥१॥ (विशेषावश्यकभाष्यम् १३१३ ) अणदंसणपुंसित्थी-वेयच्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ २ ॥” (विशेषावश्यकभाष्यम् १२८४ ) (छाया- अन-मिथ्या-मिश्र - सम्यक्त्वं, अष्ट नपुंसक-स्त्रीवेद-षट्कं च । पुंवेदं च क्षपयति, क्रोधादींश्च सञ्ज्वलनान् ॥१॥ अन-दर्श-नपुंसक-स्त्रीवेद - षट्कं च पुरुषवेदं च । द्वौ द्वावेकान्तरितौ सदृशौ सदृशमुपशमयति ॥२॥
'अहखायं पंचमं चरणं' इति अथशब्दो यथाशब्दार्थे, यथाख्यातं भणितं भगवद्भिरर्हद्भिश्चारित्रं तथा यद्भवति तदथाख्यातम्, कथं चाख्यातं भगवद्भिः ? इति चेद्ब्रूमः अकषायं कषायविगमश्चैकादशद्वादशयोर्गुणस्थानकयोरुपशान्तक्षीणमोहलक्षणयोरुपशान्तत्वात्क्षीणत्वाच्च कषायाणां बोद्धव्यः, एतत्पञ्चमं चरणं चारित्रम् । इति गाथार्थः ॥८८॥ '
-
व्रतानि साधूनामव्रतेभ्यः सर्वथा विरमणरूपाणि महाव्रतानि । यदुक्तम् - 'हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् ॥७ / १ ॥ ' ( तत्त्वार्था० ) तानि पञ्चविधानि । १ प्राणातिपातविरमणमहाव्रतं, २ मृषावादविरमणमहाव्रतं, ३ अदत्तादानविरमणमहाव्रतं, ४ मैथुनविरमणमहाव्रतं ५ परिग्रहविरमणमहाव्रतञ्च । यदाहुः योगशास्त्रे तद्वृत्तौ च
तद्यथा
-
-
'अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः ।
पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ १/१९॥