SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१८ पञ्चविधं चारित्रं 'अधुना चरित्रं चेत्यस्यावसरस्तद्व्याचिख्यासुर्भाष्यकृत्तद्भेदप्रतिपादिकां गाथामाह - सामइयं छेओवट्ठवणं परिहारसुद्धियं चेव । तह सुहुमसंपरायं, अहखायं पंचमं चरणं ॥८८॥ (छाया- सामायिकं छेदोपस्थापनं परिहारशुद्धिकं चैव । तथा सूक्ष्मसम्परायं यथाख्यातं पञ्चमं चरणम् ॥८८॥) वृत्तिः - 'सामइयं' इति समो रागद्वेषविरहितस्तस्यायनमयो गमनं सकलक्रियोपलक्षणं चैतत्सर्वैव क्रिया साधोररक्तद्विष्टस्य निर्जराफलेति समायः । यद्वा समस्यायो लाभ: कर्मपरिशाटनलक्षणः स एव सामायिकं 'स्वार्थिक इकण्' सूत्रे च प्राकृतत्वात् 'सामइयं' इति निर्देशः । तच्च प्रथमान्त्यतीर्थकरतीर्थयोरित्वरं प्रव्रज्याप्रतिपत्त्यनन्तराधीतशस्त्रपरिज्ञाध्ययनादेः छेदोपस्थाप्यसंयमारोपणे सामायिकव्यपदेशविगमात् । मध्यमतीर्थकरतीर्थेषु विदेहक्षेत्रवत्तिषु च यावज्जीविकम्, तस्य प्रव्रज्याप्रतिपत्तिकालादारभ्याप्राणोपरममवस्थितत्वादिति । 'छेओवट्ठवणं' इति च्छेदश्च पूर्वस्य सामान्यसामायिकपर्यायस्य च्छेदनं पातनम्, उपस्थापनं च विशुद्धतरसर्वसावद्ययोगविरताववस्थापनं विविक्ततरमहाव्रतारोपणं छेदोपस्थापने, ताभ्यां निर्वृत्तं परिणामविशेषरूपं चारित्रमभेदोपचारवृत्त्या छेदोपस्थापनम्, सूत्रे च 'छेओवट्ठवणं' इति प्राकृतत्वादिति । तदपि सातिचारानतिचारभेदाद्विधा । तत्र सातिचारं भग्नमूलगुणस्य पुनर्वतारोपणे, निरतिचारं च शैक्षस्याधीतविशिष्टाध्ययनस्य मध्यमतीर्थकरशिष्यस्य वा चरमतीर्थकरशिष्यत्वमुपसम्पद्यमानस्य महाव्रतोपस्थापनायाम्, एतच्च द्विविधमप्याद्यान्ततीर्थकरतीर्थयोरेवेति । 'परिहारसुद्धियं चेव' इति परिहरणं परिहारः परित्यागस्तेनोपलक्षितस्तपोविशेषोऽपि परिहारस्तेन शुद्धिर्निर्मलता यस्य चारित्रस्य तत्परिहारशुद्धिकम्, 'चेव' इति च्छन्दःपूरणे । तत्प्रतिपन्नानां च नवको गणः, चत्वारः परिहारिणः, चत्वारश्चानुपरिहारिणः, कल्पस्थित एको वाचनाचार्यः, सर्वेऽपि चैते यद्यपि श्रुताद्यतिशयसमन्वितास्तथापि रुच्या कल्पस्थित एको व्यवस्थाप्यते । तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः, तेषां च जघन्यमध्यमोत्कृष्टं ग्रीष्मकाले चतुर्थषष्ठाष्टमभक्तलक्षणम्, शिशिरे षष्ठाष्टमदशमभक्तरूपम्, वर्षासु अष्टमदशमद्वादशभक्तस्वरूपं तपः । पारणके चाचाम्लमेव, तत्साहाय्यकारिणश्चानुपरिहारिणो नियताचाम्लभक्ताः, कल्पस्थितोऽपि नियताचाम्ल एव । इत्थं च षण्मासान् कृत्वा परिहारिणोऽनुपरिहारित्वं प्रतिपद्यन्ते, अनुपरिहारिणश्च परिहारिणो भवन्ति, तेऽपि षण्मासांस्तत्तपो विदधति । पश्चात्कल्पस्थित एकाक्येव षण्मासावधिकं तत्तपः प्रतिपद्यते, तस्य च तन्मध्य एवैकः कल्पस्थितो भवत्यन्ये
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy