SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पञ्चविधं चारित्रं २१७ मुपशमयति, तच्च श्रामण्ये स्थितः सन्नुपशमयति । तथा चाह - श्रामण्ये स्थितः सन् दर्शनमोहनीयमुपशमय्यान्तरकरणं कुर्वन्ननुदितयोमिथ्यात्वसम्यङ्मिथ्यात्वयोः प्रथमां स्थितिमावलिकामात्रां करोति, सम्यक्त्वस्य चान्तर्मुहूर्तप्रमाणां, उत्कीर्यमाणं च दलिकमन्तरकरणसत्कं त्रयणामपि सम्यक्त्वप्रथमस्थितौ प्रक्षिपति । अयमेवात्र विशेषः । शेष उपशमनाविधिरशेषोऽपि प्राग्वदेव करणत्रयानुगोऽवसेयः । अत्र मुखं व्यादाय स्वपीतीत्यत्रेव क्त्वाप्रत्ययस्य व्यत्ययेन प्रयोग इति प्रथमस्थितिमावलिकां कृत्वा पूर्वं दर्शनमोहनीयमुपशमयतीति सम्मुखोऽर्थः । अन्तरकरणप्रवेशसमयादारभ्यान्तर्मुहूर्तेऽतिक्रान्ते गुणसङ्क्रमावसाने चात्र विध्यातसङ्क्रमः सम्यक्त्वस्य भवति, विध्यातसङ्क्रमेण मिथ्यात्वसम्यङ्मिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रविशतीत्यर्थः । उक्तं च - "पढमुवसमं व सेसं अंतमुहुत्ताउ अस्स विज्झाओ ॥" (छाया- प्रथमोपशमः इव शेषं अन्तर्मुहूर्तात् अस्य विध्यातः ।) इति ॥३३॥' औपशमिकसम्यक्त्वकाले अनन्तानुबन्धिकषायोदयेन द्वितीयं गुणस्थानं प्राप्तस्य जीवस्य सास्वादनं सम्यक्त्वं भवति । यदाह षडशीतिवृत्तौ - 'तथा "सासाण" त्ति सासादनं तत्र आयम् - औपशमिकसम्यक्त्वलक्षणं सादयति - अपनयति आसादनम् - अनन्तानुबन्धिकषायवेदनम्, अत्र पृषोदरादित्वाद् यशब्दलोपः, 'रम्यादिभ्यः' (५-३-१२६) कर्तर्यनट्प्रत्ययः, सति ह्यस्मिन् परमानन्दरूपानन्तसुखदो निःश्रेयसतरुबीजभूतो ग्रन्थिभेदसम्भवौपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षड्भिरावलिकाभिरपगच्छतीति, ततः सह आसादनेन वर्तत इति सासादनम् । यद्वा सास्वादनं तत्र सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनम्, यथा हि भुक्तक्षीरान्नविषयव्यलीकचित्तपुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथाऽत्रापि गुणस्थाने मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तस्य पुरुषस्य सम्यक्त्वमुद्वमतस्तद्रसास्वादो भवतीति इदं सास्वादनमुच्यत इति ॥१३॥' -- चारित्रं सर्वसावद्ययोगविरतिरूपम् । यदाह योगशास्त्रे - 'सर्वसावधयोगानां त्यागश्चारित्रमिष्यते ।...॥१/१८॥' तत् पञ्चविधम् । तद्यथा - १ सामायिकं, २ छेदोपस्थापनीयं, ३ परिहारविशुद्धिकं, ४ सूक्ष्मसम्परायं, ५ यथाख्यातञ्च । उक्तञ्च श्रीदेवगुप्ताचार्यप्रणीतश्रीनवतत्त्वप्रकरणस्य श्रीअभयदेवसूरिविरचितभाष्ये यशोदेवोपाध्यायनिर्मिततट्टीकायाञ्च -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy