________________
२१६
पञ्चविधं सम्यक्त्वम् (छाया- यावद् ग्रन्थिस्तावत् प्रथम, ग्रन्थि समतिक्रामतो भवेद् द्वितीयम् ।
अनिवृत्तिकरणं पुनः, पुरस्कृतसम्यक्त्वे जीवे ॥) 'गंठिं समइच्छओ' त्ति ग्रन्थि समतिक्रामत:-भिन्दानस्येति, 'सम्मत्तपुरक्खडे' त्ति सम्यक्त्वं पुरस्कृतं येन तस्मिन्, आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा, तस्मादेवान्तरकरणादुपरितनी शेषा द्वितीया स्थितिः । स्थापना। तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव । अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एव औपशमिकसम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् । यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदावोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्यौपशमिकसम्यक्त्वलाभः । यदाहुः श्रीपूज्यपादाः'ऊसरदेसं दविल्यं च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए, उवसमसम्मं लहइ जीवो ॥' (विशेषा० गा० २७३४) इति । (छाया- ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य ।
इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥) व्यावर्णितं ग्रन्थिभेदसम्भवमौपशमिकसम्यक्त्वम् ॥१३॥'
उपशमश्रेणिप्रतिपत्तुकामो दर्शनमोहनीयमुपशमय्यौपशमिकं सम्यक्त्वं प्राप्नोति । दर्शनमोहनीयोपशमनायाः स्वरूपमेवं ज्ञेयं कर्मप्रकृतिगतोपशमनाकरणमहोपाध्यायश्रीयशोविजयगणिकृततद्वृत्तिभ्याम् --
'अहवा दंसणमोहं पुव्वं उवसामइत्तु सामन्ने।
पढमठिइमावलियं करेड़ दोण्हं अणुदियाणं ॥३३॥ (छाया- अथवा दर्शनमोहं पूर्वं उपशमय्य श्रामण्ये ।
प्रथमस्थितिमावलिकां करोति द्वयोरनुदितयोः ॥३३॥) वृत्तिः - तदेवं दर्शनमोहनीयं क्षपयित्वोपशमश्रेणिर्भवतीति प्रकारः उक्तः, अथ दर्शनमोहनीयमुपशमय्याप्युपशमश्रेणिप्रतिपत्तिर्भवतीति प्रकारान्तरमाह - अथवा इति प्रकारान्तरे । इह यदि वेदकसम्यग्दृष्टिः सन्नुपशमश्रेणि प्रतिपद्यते ततो नियमाद्दर्शनमोहनीयत्रितयं पूर्व