SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ पञ्चविधं सम्यक्त्वम् २१३ अथवा, अनुदीर्णत्वमविशुद्धमिश्रपुञ्जद्वयरूपस्य मिथ्यात्वस्यैव योज्यते, न तु सम्यक्त्वस्य, तस्यापनीतमिथ्यात्वस्वभावत्वलक्षणमुपशान्तत्वमेव योज्यत इत्यर्थः । कथम् ?, इति चेत् । उच्यते - मिथ्यात्वं यदुदीर्णमुदयमागतं तत् क्षीणं, शेषं त्वविशुद्ध-मिश्रपुञ्जद्वयलक्षणं मिथ्यात्वमनुदीर्णं 'अणुइयं च' इति चशब्दस्य व्यवहितप्रयोगात् शुद्धपुञ्जलक्षणं तदुपशान्तं चेति - अपनीतमिथ्यात्वस्वभावमित्यर्थः, इत्येवं सर्वं सुस्थं भवति । तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयः, अनुदीर्णस्य च य उपशमः, एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्र मिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं मिश्रीभावपरिणतं वेद्यमानमनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां निर्वृत्तत्वात् क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टेर्यथावस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्याऽऽवारका न भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इति । अत्राह - ननूदीर्णस्य मिथ्यात्वस्य क्षये, अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वमिहोक्तम्, प्रागुक्तमौपशमिकमपि तदेवंविधमेव, तत् कोऽनयोविशेषः ? । तदेतदसमीक्षिताभिधानम्, यतो 'मीसीभावपरिणयं वेइज्जंतं खओवसमं' इति वचनादत्र क्षायोपशमिकसम्यक्त्वे शुद्धपुञ्जपुद्गलवेदनमुक्तम्, औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनाऽपि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेद्यते । इत्यलं प्रसङ्गेनेति ॥५३२॥' अनन्तानुबन्धिकषायमिथ्यात्वमोहनीयमिश्रमोहनीयेषु क्षपितेषु सत्सु सम्यक्त्वमोहनीये प्रभूततरे क्षपिते सम्यक्त्वमोहनीयस्य चरमांशस्य वेदनरूपं वेदकसम्यक्त्वम् । यदुक्तम् श्रीविशेषावश्यकभाष्ये मलधारिश्रीहेमचन्द्रसूरिकृततट्टीकायाञ्च - 'अथोक्तशेषं वेदकं, क्षायिकं च सम्यक्त्वमेकगाथया प्राह - वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थं । खीणे सणमोहे तिविहम्मि वि खाइयं होइ ॥५३३॥ (छाया- वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवति ॥५३३॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy