SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पञ्चविधं सम्यक्त्वम् २१२ अत्र तृतीयभवे मोक्षगमने देवनारकेषु मध्ये उत्पत्तिर्हेतुश्चतुर्थभवे च मोक्षगमनेऽसङ्ख्येयवर्षायुष्केषूत्पत्तिस्तद्भवमोक्षगमने च चरमदेहत्वमिति क्रमेण योजनीयम् । इदं च प्रायोवृत्त्योक्तमिति सम्भाव्यते, यतः क्षीणसप्तकस्य कृष्णस्य पञ्चमभवेऽपि मोक्षगमनं श्रूयते । उक्तं च - 'नरयाउ नरभवम्मि देवो होऊण पंचमे कप्पे । तत्तो चुओ समाणो बारसमो अममतित्थयरो ॥१॥" (छाया - नरकात् नरभवे देवो भूत्वा पञ्चमे कल्पे । ततश्च्युतः सन् द्वादशः अममतीर्थकरः ||१|| ) इति । इत्थमेव दुःप्रसहादीनामपि क्षायिकसम्यक्त्वमागमोक्तं युज्यत इति यथागमं विभावनीयम् ॥३२॥' क्षायोपशमिकं सम्यक्त्वमुदीर्णस्य मिथ्यात्वमोहनीयस्य क्षयेणाऽनुदीर्णस्योपशमेन सम्यक्त्वमोहनीयस्योदयेन च निर्वृत्तम् । यदवाचि श्रीविशेषावश्यकभाष्ये मलधारिश्रीहेमचन्द्रसूरिकृततट्टीकायाञ्च 'अथ क्षायोपशमिकमाह - मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ॥ ५३२॥ (छाया - मिथ्यात्वं यदुदीर्णं तत् क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥५३२॥) वृत्ति: - यदुदीर्णमुदयमागतं मिथ्यात्वं तद् विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्णं, यच्च शेषं सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च शेषमिथ्यात्वं, मिथ्यात्व - मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जमाश्रित्य पुनरपनीतमिथ्यास्वभावमित्यर्थः । आह - यद्येवम्, अशुद्ध - मिश्रपुञ्जद्वयरूपस्य विष्कम्भितोदयस्यैवोपशान्तस्याऽनुदीर्णता युज्यते, न तु शुद्धपुञ्जलक्षणस्यापनीतमिथ्यात्वस्वभावस्य, तस्य विपाकेन साक्षादनुभूयमानत्वादिति, भवद्भिस्तु 'अणुइयं च उवसंतं' इति वचनाद् द्विस्वभावमप्युपशान्तमनुदीर्णमुक्तम्, तदेतत् कथम् ? इति । अत्रोच्यते - सत्यमेतत्, किन्त्वपनीतमिथ्यात्वस्वभावत्वात् स्वरूपेणाऽनुदयात् तस्याऽप्यनुदीर्णतोपचारः क्रियते ।
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy