________________
पञ्चविधं सम्यक्त्वम्
२११ मुदयसमयादारभ्यासङ्ख्येयगुणनया प्रक्षिपति, तद्यथा-उदयसमये स्तोकं, ततो द्वितीयसमयेऽसङ्ख्येयगुणं, ततोऽपि तृतीयसमयेऽसङ्ख्येयगुणं, एवं तावद्वाच्यं यावद्-गुणश्रेणीशिरः । अत ऊर्ध्वं तूत्कीर्यमाणमेव दलिकं प्राप्यते, न तत्प्रक्षेपाधारभूतमिति न तत् क्वापि प्रक्षिपति, चरमे च स्थितिखण्डे उत्कीर्णे सत्यसौ क्षपकः कृतकरण इति परिभाष्यते। तथा चाह -
"कयकरणद्धाइ पच्छिमे होइ।" (छाया- कृतकरणाद्धायां पश्चिमे भवति ।)
पश्चिमे चरमे खण्डे उत्कीर्णे कृतकरणाद्धायां वर्तते कृतकरणो भवतीत्यर्थः । अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित्कालमपि कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि पूर्वं शुक्लायामेवासीत्, सम्प्रति त्वन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु चतसृष्वपि गतिषु भवतीत्यागतः । उक्तं च -
"पट्ठवगो उ मणूसो निट्ठवगो होइ चउसु वि गईसु ।" (छाया- प्रस्थापकस्तु मनुष्यः निष्ठापको भवति चतसृषु अपि गतिषु ।)
यदि पुनस्तदानीं कालं न करोति तदा वेदितसम्यक्त्वशेषः क्षायिकसम्यग्दृष्टिः सन्नुपशमश्रेणि क्षपकश्रेणिं वा समारोहति । तत्र यो वैमानिकेष्वेव बद्धायुष्कः क्षीणसप्तकः स उपशमश्रेणिमारोहति, अबद्धायुष्कस्तु क्षपकश्रेणि, अन्यगतिबद्धायुष्कस्तु न कामपि श्रेणिमारभते श्रेणिकादिवदिति ज्ञेयम् । अथ क्षीणसप्तको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति ? उच्यते - तृतीये चतुर्थे वा । तथाहि - यदि स्वर्गे नरके वा गच्छति तदा स्वर्गभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति, यदि चासौ तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते तदाऽवश्यमसङ्ख्येयवर्षायुष्केष्वेव न सङ्ख्येयवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवं, तस्माच्च देवभवाच्च्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम्, उक्तं च पञ्चसङ्ग्रहे -
"तइयचउत्थे तम्मि व भवम्मि सिज्झन्ति दंसणे खीणे ।
जं देवणिरयसंखाउचरमदेहेसु ते हुँति ॥१॥" (छाया- तृतीये चतुर्थे तस्मिन् वा भवे सिध्यन्ति दर्शने क्षीणे ।
यत् देवनिरयासङ्ख्यातायुष्कचरमदेहेषु ते भवन्ति ॥१॥)