________________
२१०
"ठिइखण्डसहस्साई एक्केक्के अन्तरम्मि गच्छन्ति । पलिओवमसंखंसे दंसणसंते तओ जाए ॥१॥"
पञ्चविधं सम्यक्त्वम्
(छाया- स्थितिखण्डसहस्राणि एकैकस्मिन् अन्तरे गच्छन्ति । पल्योपमसङ्ख्येयांशः दर्शनं शान्तं ततो जातम् ॥१॥) इत्यादि ।
‘एकैकस्मिन्नन्तरे' इति-असञ्ज्ञिपञ्चेन्द्रियचतुरिन्द्रियादिसमानस्थितिसत्कर्मभवनानामपान्तराले, तत एकं सङ्ख्येयतमं भागं मुक्त्वा शेषं सर्वमपि त्रयाणामपि दर्शनमोहनीयानां विनाशयति, ततस्तस्यापि प्राग्मुक्तस्य सङ्ख्येयतमभागस्यैकं सङ्ख्येयभागं मुक्त्वा शेषान् सङ्ख्येयान् भागान् विनाशयति, एवं स्थितिघाताः सहस्रशो व्रजन्ति, तदनन्तरं च मिथ्यात्व - स्यासङ्ख्येयान् भागान्, सम्यक्त्वसम्यङ्मिथ्यात्वयोस्तु सङ्ख्येयान् भागान् खण्डयति । अनेन विधिना स्थितिखण्डेषु प्रभूतेषु परिगलितेषु सत्सु मिथ्यात्वमुदयावलिकारहितं सकलमपि क्षीणं, आवलिकामात्रं तु तिष्ठति । सम्यक्त्वसम्यङ्मिथ्यात्वयोस्तु पल्योपमासङ्ख्येयभागमात्रशेषीभूतं तिष्ठति । अमूनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यङ्मिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वत्कानि त्वधस्तात्स्वस्थाने इति । यदपि मिथ्यात्वदलिकमावलिकामात्रमुद्धरितं तिष्ठति तदपि स्तिबुकसङ्क्रमेण सम्यक्त्वे प्रक्षिपति, तदनन्तरं सम्यक्त्वसम्यग्मिथ्यात्वयोरसङ्ख्येयान् भागान् खण्डयत्येकं मुञ्चति, ततस्तस्याप्यसङ्ख्येयान् भागान् खण्डयत्येकं मुञ्चति, एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यङ्मिथ्यात्वमावलिकामात्रं तिष्ठति, तदानीं च सम्यक्त्वस्थितिसत्कर्माष्टवर्षप्रमाणं भवति । स चाष्टवर्षप्रमाणसम्यक्त्वसत्कर्मा निश्चयनयमतेन सकलप्रत्यूहविलयाद्दर्शनमोहनीयक्षपक उच्यते । ततो निश्चयनयाभिमतक्षपकत्वभवनादूर्ध्वं सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्त्तप्रमाणमुत्किरति घातयतीत्यर्थः, तद्दलिकं तूदयसमयादारभ्य प्रक्षिपति, तच्चैवम्-उदयसमये स्तोकं, ततो द्वितीयसमयेऽसङ्ख्येयगुणं, ततोऽपि तृतीयसमयेऽसङ्ख्येयगुणं, एवं तावद्वाच्यं यावद्गुणश्रेणीशिरः, तत ऊर्ध्वं विशेषहीनं विशेषहीनं तावद्यावच्चरमा स्थितिः, ततो द्वितीयं स्थितिखण्डमन्तर्मुहूर्तप्रमाणं पूर्वस्मादसङ्ख्येयगुणमुत्किरति, उत्कीर्य च प्रागुक्तप्रकारेणोदयसमयादारभ्य निक्षिपति, एवं पूर्वस्मात्पूर्वस्मादसङ्ख्येयगुणान्यान्तर्मौहूर्त्तिकान्यनेकानि स्थितिखण्डान्युत्किरति निक्षिपति च तावद्यावद्विचरमं स्थितिखण्डम् । द्विचरमाच्च स्थितिखण्डादन्तिमं स्थितिखण्डं सङ्ख्येयगुणं, तस्मिँश्चान्तिमे स्थितिखण्डे खण्ड्यमाने सङ्ख्येयभागं गुणश्रेण्याः खण्डयति, अन्याश्च तदुपरितनीः सङ्ख्येयगुणाः स्थितीः तावन्मानत्वादेव चरमखण्डस्य, उत्कीर्य च तद्दलिक