________________
पञ्चविधं सम्यक्त्वम्
२०९ महोपाध्यायश्रीयशोविजयकृततट्टीकायाञ्च
'दसणमोहे वि तहा कयकरणद्धा य पच्छिमे होइ ।
जिणकालगो मणुस्सो पट्ठवगो अट्ठवासुप्पि ॥३२॥ (छाया- दर्शनमोहेऽपि तथा कृतकरणाद्धायां पश्चिमे भवति ।
जिनकालिको मनुष्यः प्रस्थापको ऽष्टवर्षोपरि ॥३२॥) वृत्तिः - अथ दर्शनमोहनीयक्षपणाविधिमाह - इह दर्शनमोहनीयक्षपणाया आरम्भको मनुष्यो जिनकालको-जिनकालसम्भवी, जिनकालश्च प्रथमतीर्थङ्कविहरणकालादिर्जम्बूस्वामिकेवलोत्पत्तिपर्यवसानो ज्ञातव्यः । तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षभनाराचसंहननश्च भवति । दर्शनमोहेऽपि च क्षपणा तथैव वक्तव्या यथा प्रागनन्तानुबन्धिनामुक्ता। इत्थं सामान्येनातिदिष्टेऽपि य इह विशेषः स उच्यते-इह दर्शनमोहनीयक्षपणायोद्यतो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तानि च प्रागिव वक्तव्यानि, नवरमपूर्वकरणस्य प्रथमसमय एवानुदितयोमिथ्यात्वसम्यङ्मिथ्यात्वयोर्दलिकं गुणसङ्क्रमेण सम्यक्त्वे प्रक्षिपति। उद्वलनासङ्क्रममपि तयोरेवमारभते-प्रथमं स्थितिखण्डं बृहत्तरमुद्वलयति, ततो द्वितीयं विशेषहीनं, ततोऽपि तृतीयं विशेषहीनं, एवं तावद्वाच्यं यावदपूर्वकरणचरमसमयः । अपूर्वकरणप्रथमसमये च यत्स्थितिकर्मासीत्तत्तस्यैव चरमसमये सङ्ख्येयगुणहीनं जातम् । एवं स्थितिबन्धोऽपि वेदितव्यः, अपूर्वकरणस्य प्रथमसमये यावान् स्थितिबन्ध आसीत्तदपेक्षया तस्यैवापूर्वकरणस्य चरमसमये सङ्ख्येयगुणहीनो भवतीत्यर्थः । ततोऽनिवृत्तिकरणे प्रविशति । तत्र च प्रविष्टः सन् प्रथमसमयादेवारभ्यापूर्वां गुणश्रेणिमपूर्वं स्थितिघातमपूर्वं रसघातमपूर्वं च स्थितिबन्धं कर्तुमारभते, अनिवृत्तिकरणप्रथमसमय एव च दर्शनत्रिकस्य देशोपशमनानिधत्तिनिकाचना व्यवच्छिद्यन्ते, देशोपशमनादीनां त्रयाणां करणानां नैकमपि दर्शनत्रिकस्य ततः प्रभृति प्रवर्तते इत्यर्थः । किञ्च तत्त्रयस्य स्थितिसत्कर्मानिवृत्तिकरणप्रथमसमयादारभ्य स्थितिघातादिभिर्घात्यमानं स्थितिखण्डसहस्रेषु गतेष्वसज्ञिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम्, ततोऽपि तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानं भवति । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपममात्रप्रमाणं भवति । एतच्च चूर्णिकृन्मतेनोक्तम् । पञ्चसङ्ग्रहकृन्मते तु पल्योपमसङ्ख्येयभागमात्रं, तदुक्तं पञ्चसङ्ग्रहे -