________________
द्वितीया षट्त्रिशिका .
अधुना द्वितीयां षट्त्रिशिकां प्रतिपादयति - मूलम् - पणविहसम्मचरणवय-ववहारायारसमिइसज्झाए ।
इगसंवेगे अ रओ, छत्तीसगुणो गुरू जयउ ॥३॥ छाया - पञ्चविधसम्यक्त्वचरणव्रत-व्यवहाराचारसमितिस्वाध्यायेषु ।
एकसंवेगे च रतः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३॥ प्रेमीया वृत्तिः - पञ्चविधसम्यक्त्वचरणव्रतव्यवहाराचारसमितिस्वाध्यायेषुपञ्चविधेषु सम्यक्त्वेषु, पञ्चविधेषु चरणेषु, पञ्चविधेषु व्रतेषु, पञ्चविधेषु व्यवहारेषु, पञ्चविधेषु आचारेषु, पञ्चविधासु समितिषु, पञ्चविधेषु स्वाध्यायेषु च, एकसंवेगे - एकस्मिन् संवेगे, चः समुच्चये, रतः - मग्नः, इत्थं षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः ।
भावार्थस्त्वयम्-सम्यक्त्वं जिनोक्ततत्त्वश्रद्धानरूपम् । तत्पञ्चविधम् तद्यथा - १ क्षायिकं, २ क्षायोपशमिकं, ३ वेदकं, ४ औपशमिकं ५ सास्वादनञ्च ।
तत्र क्षायिकं सम्यक्त्वं दर्शनमोहनीयकर्मणः क्षयेण निर्वृत्तम् । यदुक्तं श्रीविशेषावश्यकभाष्ये मलधारिश्रीहेमचन्द्रसूरिनिर्मिततट्टीकायाञ्च -
'खीणे दंसणमोहे तिविहम्मि वि खाइयं होइ ॥५३३॥ (छाया- क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवति ॥५३३॥)
वृत्तिः - अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्व-मिश्र-सम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति ।..॥५३३॥'
तत्र दर्शनमोहनीयक्षपणायाः स्वरूपमेवं प्रतिपादितं कर्मप्रकृतिगतोपशमनाकरणे