________________
२१४
पञ्चविधं सम्यक्त्वम् वृत्तिः - वेदयत्यनुभवति सम्यक्त्वपुद्गलानिति वेदकोऽनुभविता, तदनन्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम्, तथा वेद्यत इति वेदकम्, जीवादिवस्तुबोधं प्रति समिति सम्यग् अवैपरीत्येन, अञ्चति प्रवर्तत इति सम्यक्, तस्य भावः सम्यक्त्वं, वेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपकश्रेणिं प्रतिपन्नस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्रपुञ्जेषु क्षपितेषु, सम्यक्त्वपुञ्जमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुद्गलावस्थं भवति । सर्वे च ते उदिताश्च ते च ते चरमपुद्गलाश्च सर्वोदितचरमपुद्गलास्तेऽवस्था स्वरूपं यस्य तत् तथा । इदमुक्तं भवति - क्षपितप्रायदर्शनसप्तकस्य सम्यक्त्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति । __ अत्राह - नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् ? । सत्यम्, किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तम्, इतरत्तूदिताऽनुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदम्, चरमग्रासशेषाणां पुद्गलानां क्षयात्, चरमग्रासवतिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्यं चेदमङ्गीकर्तव्यम्, स्थानान्तरेषु बहुशः क्षायिकौपशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात् । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाऽङ्गीक्रियमाणे औदयिकसम्यक्त्वस्यापि प्राप्तेरतिप्रसङ्गः स्यादिति । अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । तदेवमेतत्सम्यक्त्वपञ्चकपरिग्रहात् सम्यक्श्रुतम्, मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥५३३॥'
औपशमिकं सम्यक्त्वं द्विविधं - ग्रन्थिभेदसम्भवमुपशमश्रेणिसम्भवञ्च । ग्रन्थिभेदसम्भवमौपशमिकं सम्यक्त्वं मिथ्यात्वमोहनीयकर्मण उपशमेन निवृत्तम् । उपशमश्रेणिसम्भवमौपशमिकं सम्यक्त्वं दर्शनमोहनीयकर्मण उपशमेन निर्वृत्तम् । तत्र ग्रन्थिभेदसम्भवौपशमिकसम्यक्त्वस्य स्वरूपमित्थं प्रतिपादितं षडशीतिनामचतुर्थकर्मग्रन्थवृत्तौ श्रीदेवेन्द्रसूरिभिः -
'तथा उदीर्णस्य मिथ्यात्वस्य क्षये सति अनुदीर्णस्य उपशमः - विपाकप्रदेशवेदनरूपस्य द्विविधस्याप्युदयस्य विष्कम्भणं तेन निर्वृत्तमौपशमिकम्, तच्च द्विधा - ग्रन्थिभेदसम्भवमुप