SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चतुर्विधं शुक्लध्यानम् १४५ व्याख्या निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनो - योगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छ्वासनिःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतिपाति अनिवर्ति । दरशब्द: प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा “दरदलितहरिद्राग्रन्थिगौरं शरीरम् " ( इत्यादौ ) ॥११/८॥ - चतुर्थं भेदं व्याचष्टे केवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥११/९॥ व्याख्या - स्पष्टः ॥ ११ / ९ ॥ चतुर्ष्वपि योगसङ्ख्यां निरूपयि - एकत्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगाणां चतुर्थं तु ॥११ / १०॥ व्याख्या आद्यं पृथक्त्ववितर्कं सविचारं मनः प्रभृत्येकयोगभाजां योगत्रयभाजां वा, तच्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनःप्रभृत्येकयोगभाजां योगान्तरे सङ्क्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थं व्युत्सन्नक्रियमप्रतिपाति निर्योगाणामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु कायवाग्मनोभेदात्त्रिविधः । तत्रैौदारिकवैक्रियाहारकतैजसकार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः । औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः ||११ / १० || ' गुरुः प्रत्येकं चतुर्विधान्येतानि चत्वारि ध्यानानि वेत्ति । इत्थं षट्त्रिंशद्गुणसमन्वितस्य गुरोर्विजयो भवतु ॥२॥ इति प्रथमा षट्त्रिशिका समाप्ता ।
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy