________________
चतुर्विधं शुक्लध्यानम्
१४५
व्याख्या निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनो - योगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छ्वासनिःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतिपाति अनिवर्ति । दरशब्द: प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा “दरदलितहरिद्राग्रन्थिगौरं शरीरम् " ( इत्यादौ ) ॥११/८॥
-
चतुर्थं भेदं व्याचष्टे
केवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥११/९॥
व्याख्या - स्पष्टः ॥ ११ / ९ ॥
चतुर्ष्वपि योगसङ्ख्यां निरूपयि
-
एकत्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगाणां चतुर्थं तु ॥११ / १०॥
व्याख्या आद्यं पृथक्त्ववितर्कं सविचारं मनः प्रभृत्येकयोगभाजां योगत्रयभाजां वा, तच्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनःप्रभृत्येकयोगभाजां योगान्तरे सङ्क्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थं व्युत्सन्नक्रियमप्रतिपाति निर्योगाणामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु कायवाग्मनोभेदात्त्रिविधः । तत्रैौदारिकवैक्रियाहारकतैजसकार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः । औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः ||११ / १० || '
गुरुः प्रत्येकं चतुर्विधान्येतानि चत्वारि ध्यानानि वेत्ति । इत्थं षट्त्रिंशद्गुणसमन्वितस्य गुरोर्विजयो भवतु ॥२॥ इति प्रथमा षट्त्रिशिका समाप्ता ।