________________
१४४
चतुर्विधं शुक्लध्यानम् सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं ।
होइ पुहुत्तवियक्कं सवियारमरागभावस्स ॥७८॥" (ध्यानशतकम्) (छाया- उत्पादस्थितिभङ्गादिपर्यवाणां यदेकद्रव्ये ।
नानानयानुसरणं पूर्वगतश्रुतानुसारेण ॥७७॥ - सविचारमर्थव्यञ्जनयोगान्तरतः तत् प्रथमशुक्लम् ।
भवति पृथक्त्ववितर्कं सविचारमरागभावस्य ॥७८॥) ननु अर्थव्यञ्जनयोगान्तरेषु सङ्क्रमणात् कथं मनःस्थैर्य ? तदभावाच्च कथं ध्यानत्वं ? उच्यते - एकद्रव्यविषयत्वे मनःस्थैर्यसम्भवाद्ध्यानत्वमविरुद्धम् ॥११/६॥ द्वितीयं भेदं व्याचष्टे -
एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये ।
अर्थव्यञ्जनयोगान्तरेष्वसङ्क्रमणमन्यत्तु ॥११/७॥ व्याख्या - एवं श्रुतानुसारादिति पूर्वविदां पूर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्कं नाम द्वितीयं शुक्लध्यानं, तच्चार्थव्यञ्जनयोगेष्वसङ्क्रमणरूपम्। यदाहुः - "जं पुण सुणिप्पयंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिईभंगाइयाण एगम्मि पज्जाये ॥७९॥ अवियारमत्थवंजणजोगंतरओ तयं बीयसुक्कं । पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं ॥८०॥" (ध्यानशतकम् ) ॥११/७॥ (छाया- यत्पुनः सुनिष्प्रकम्पो निवातशरणप्रदीप इव चित्तम् ।
उत्पादस्थितिभङ्गादिकानामेकस्मिन् पर्याये ॥१॥ अविचारमर्थव्यञ्जनयोगान्तरतः तकं द्वितीयशुक्लम् ।
पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥२॥) तृतीयभेदं व्याचष्टे -
निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् ॥११/८॥