SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चतुर्विधं शुक्लध्यानम् अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ॥१७३॥ यः परात्मा परं सोऽहं योऽहं स परमेश्वरः । मदन्यो न मयोपास्यो, मदन्येन च नाप्यहम् ॥१७४॥' १ पृथक्त्ववितर्कसविचारं, २ एकत्व - अथ शुक्लध्यानं चतुर्विधम् । तद्यथा वितर्काविचारं, ३ सूक्ष्मक्रियाप्रतिपाति ४ व्युपरतक्रियानिवर्त्ति च । तथा चाह योगशास्त्रे तद्वृत्तौ च - 'शुक्लध्यानस्य भेदानाह - यदाहुः - ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् ॥ ११/५॥ व्याख्या नानात्वं पृथक्त्वं श्रुतं वितर्कः विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः इति पृथक्त्ववितर्कं सविचारं प्रथमम् । ऐक्यमपृथक्त्वं एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवर्तीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ॥११/५॥ अथाद्यभेदं व्याचष्टे १४३ एकत्र पर्ययाणां विविधनयानुसरणं श्रुताद्द्रव्ये । अर्थव्यञ्जनयोगान्तरेषु सङ्क्रमणयुक्तमाद्यं तत् ॥११/६॥ , व्याख्या - एकस्मिन् परमाण्वादौ द्रव्ये पर्यायाणामुत्पादस्थितिभङ्गमूर्त्तत्वामूर्त्तत्वादीनां विविधनयैर्द्रव्यार्थिकपर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनं श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा, तदाद्यं शुक्लमिति सम्बन्धः । कथम्भूतं ? अर्थव्यञ्जनयोगान्तरेषु सङ्क्रमणयुक्तं, अर्थो द्रव्यं तस्माद्व्यञ्जने शब्दे शब्दाच्चार्थे सङ्क्रमणं, योगाद्योगान्तरसङ्क्रमणं तु मनोयोगात् काययोगे वा वाग्योगे वा सङ्क्रान्ति:, एवं काययोगान्मनोयोगे वाग्योगे वा, वाग्योगान्मनोयोगे काययोगे वा सङ्क्रमणं, तेन युक्तम् । "उप्पायठिईभंगाइपज्जवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुव्वगयसुयाणुसारेण ॥७७॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy