SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ चतुर्विधं धर्मध्यानम् शाकिन्यः क्षुद्रयोगिन्यः पिशाचा पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः ॥१५६॥ दुष्टा करटिनः सिंहा शलभा पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥१५७॥ पदस्थध्यानम् पुण्यमन्त्रपदान्येव तथागमपदानि वा । ध्यायन्ते यद्बुधैर्नित्यं तत्पदस्थं गतं बुधैः ॥१५८॥ ओमर्हादिकमन्त्राणां मायाबीजजुषां ततिम् । परमेष्ठ्यादिपदवातं पदस्थध्यानगः स्मरेत् ॥१५९॥ रूपस्थध्यानम् सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते ॥१६०॥ रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तकान्तं मनोहारि सर्वलक्षणलक्षितम् ॥१६१॥ .. जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन् रुपस्थध्यानवान्भवेत् ॥१६२॥ रूपातीतध्यानम् लोकाग्रस्थं परात्मानममूर्त क्लेशवर्जितम् । चिदानन्दमयं सिद्धमनन्तानन्दगं स्मरेत् ॥१६९॥ यस्यात्र ध्यानमात्रेण क्षीयन्ते जन्ममृत्यवः । उत्पद्यते च विज्ञानं स ध्येयो नित्यमात्मना ॥१७॥ तत्स्वरूपाहितं स्वान्तं तद्गुणग्रामरञ्जितम् । योजयत्यात्मनात्मानं स्वस्मिन् तद्रूपसिद्धये ॥१७१॥ इत्यजत्रं स्मरन् योगी तत्स्वरूपावलम्बितः। तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितः ॥१७२॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy