________________
१४१
चतुर्विधं धर्मध्यानम्
ततो देहान बहिर्ध्यायेत् त्रिकोणं वह्निमण्डलम् । ज्वलत्स्वस्तिकसंयुक्तं वह्निबीजसमन्वितम् ॥१४६॥ देहं पद्मं च मन्त्राचिरन्तर्वह्निपुरं बहिः ।
कृत्वाशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥१४७॥ मारुतीधारणा
ततत्रिभुवनाभोगं पूरयन्तं समीरणम् । चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् ॥१४८॥ तच्च भस्मरजस्तेन शीघ्रमुख़्य वायुना।
दृढाभ्यासः प्रशान्ति तमानयेदिति मारुती ॥१४९॥ वारुणीधारणा
स्मरेद्वर्षत्सुधासारैः घनमालाकुलं नभः । ततोऽर्धेन्दुसमकान्तं मण्डलं वारुणाङ्कितम् ॥१५०॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः ।
तद्रजः कायासम्भूतं क्षालयेदिति वारुणी ॥१५१॥ तत्त्वभूधारणा
सप्तधातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥१५२॥ ततः सिंहासनासीनं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥१५३॥ स्वाङ्गगर्भे निराकारं स्वं स्मरेदिति तत्त्वभूः।
साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥१५४॥ पिण्डस्थध्यानफलम्
अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्यामन्त्रमण्डलशक्तयः ॥१५५॥