________________
१४०
चतुर्विधं धर्मध्यानम् 'पिण्डस्थं च पदस्थं च रुपस्थं रूपवर्जितम् ।
इत्यन्यच्चापि सद्ध्यानं च ध्यायन्ति चतुर्विधम् ॥१३५॥ पिण्डस्थे पञ्चधारणा
पिण्डस्थे पञ्च विज्ञेया धारणा तत्र पार्थिवी ।
आग्नेयी मारुती चापि वारुणी तत्त्वभूस्तथा ॥१३६॥ पार्थिवीधारणा
तिर्यग्लोकसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥१३७॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ॥१३८॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् ।
आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥१३९॥ आग्नेयीधारणा
ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले। स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥१४०॥ प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ॥१४१॥ रेफरुद्धं कलाबिन्दुलाञ्छितशून्यमक्षरम् । लसद्विन्दुछटाकोटीकान्तिव्याप्तहरिन्मुखम् ॥१४२॥ [अर्ह ] तस्य रेफाद्विनिर्यान्ती शनै—मशिखां स्मरेत् । स्फुलिङ्गसन्ततिं पश्चात् ज्वालाली तदनन्तरम् ॥१४३॥ तेन ज्वालाकलापेन वर्धमानेन सन्ततम् । दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् ॥१४४॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थप्रबलानलः ॥१४५॥