________________
चतुर्विधं धर्मध्यानम् बिभ्यत्सु । तथा वैरिभिराक्रान्तेषु रोगपीडितेषु मृत्युमुखमधिशयितेष्विव याचमानेषु प्रार्थयमानेषु जीवितं प्राणत्राणम् । एतेषु दीनादिषु "अहो कुशास्त्रप्रणेतारः तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन्, भगवानपि हि भुवनगुरुः स (उ)न्मार्गदेशनात्सागरोपमकोटिकोटिं यावद्भवे भ्रान्तः तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिः ?, तथा धिगमी विषयार्जनभोगतरलहृदया अनन्तभवानुभूतेष्वपि विषयेष्वसन्तृप्तमनसः कथं नाम प्रशमामृततृप्ततया वीतरागदशां नेतुं शक्याः ? इति, तथा बालवृद्धादयोऽपि विविधभयहेतुभ्यो भीतमनसः कथं नामैकान्तिकात्यन्तिकभयवियोगभाजनीकरिष्यन्ते ? इति, तथा मृत्युमुखमधिशयिताः स्वधनदारपुत्रादिवियोगमुत्प्रेक्षमाणा मारणान्तिकी पीडामनुभवन्तः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीकरिष्यन्ते ?" इत्येवं प्रतीकारपरा या बुद्धिः, न तु साक्षात्प्रतीकार एव, तस्य सर्वेष्वशक्यक्रियत्वात्, सा कारुण्यमभिधीयते । या तु अशक्यप्रतीकारेषु सर्वान् जन्तून् मोचयित्वा मोक्षं यास्यामीति सौगतानां करुणा, न सा करुणा, वाङ्मात्रत्वात्, न ह्येवं शक्यं भवितुं संसारिषु मुक्तेषु मया मोक्तव्यमिति, संसारोच्छेदप्रसङ्गेन सर्वसंसारिणां मुक्त्यभावात्, तस्माद्वाङ्मात्रमेतत् मुग्धजनप्रतारकं सौगतानां कारुण्यम् । एतच्च कुर्वन् हितोपदेशदेशकालापेक्षान्नपानाश्रयवस्त्र(पात्र)भेषजैरपि ताननुगृह्णातीति ॥४/१२०॥ अथ माध्यस्थ्यस्वरूपमाह -
क्रूरकर्मसु निःशङ्कं देवतागुरुनिन्दिषु ।
आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥४/१२१॥ व्याख्या - क्रूराणि अभक्ष्यभक्षणापेयपानागम्यगमनऋषिबालस्त्रीभ्रूणघातादीनि कर्माणि येषां तेषु, तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह - देवतागुरुनिन्दिषु देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका उपदेष्टारश्च तान् रक्तद्विष्टमूढपूर्वव्युद्ग्राहिततया निन्दन्तीत्येवं शीलाः तेषु, तथाविधा अपि कथञ्चन वैराग्यदशापन्ना आत्मदोषदशिनो नोपेक्षणीयाः स्युरित्याह - आत्मशंसिषु आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहुमानिन इत्यर्थः तेषु मुद्गशैलेष्विव पुष्करावर्त्तवारिभिमूंदूकर्तुमशक्येषु देशनाभिः, योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥४/१२१॥'
यद्वा पिण्डस्थ-पदस्थ-रूपस्थ-रूपातीतभेदात् चतुर्विधं धर्मध्यानम् । यदाह ध्यानदीपिकायाम्